राज्योत्सवस्य अवसरे जिलायां त्रिदिवसीयकार्यक्रमस्य भविष्यति आयोजनं, मंत्री टंकराम वर्मा भविष्यति मुख्यातिथिः
द्वितीयाच्चतुर्थं नवम्बर यावत् शासकीये माध्यमिकविद्यालयक्रीडांगणे जांजगीरे भविष्यन्ति विविधाः कार्यक्रमाः कोरबा/जांजगीर-चांपा 01 नवम्बरमासः (हि.स.)।छत्तीसगढराज्यस्य पञ्चविंशत्याः स्थापना–दिवसस्य अवसरि जिलामुख्यालये जिलास्तरीयकार्यक्रमः २०२५ तमस्
राज्योत्सव के अवसर पर जिले में तीन दिवसीय कार्यक्रम का होगा आयोजन, राजस्व एवं आपदा प्रबंधन मंत्री टंकराम वर्मा होंगे मुख्य अतिथि


द्वितीयाच्चतुर्थं नवम्बर यावत् शासकीये माध्यमिकविद्यालयक्रीडांगणे जांजगीरे भविष्यन्ति विविधाः कार्यक्रमाः

कोरबा/जांजगीर-चांपा 01 नवम्बरमासः (हि.स.)।छत्तीसगढराज्यस्य पञ्चविंशत्याः स्थापना–दिवसस्य अवसरि जिलामुख्यालये जिलास्तरीयकार्यक्रमः २०२५ तमस्य नवम्बरमासस्य द्वितीयतृतियचतुर्थतिथिषु त्रिदिनात्मकस्वरूपेण शासकीय–हायस्कूल–मैदाने जांजगीरे आयोजितः भविष्यति।

कार्यक्रमस्य मुख्यातिथिः राजस्व–आपदाप्रबन्धन–क्रीडा–युवकल्याणमन्त्री टङ्करामवर्मा भविष्यति।

अतिविशिष्टातिथिः जांजगीर–चांपा–लोकसभासांसदः कमलेशजांगड़े भविष्यति।

विशिष्टातिथयः —

जांजगीर–चांपा–विधानसभायाः विधायकः ब्यासकश्यपः,

अकलतरा–विधानसभायाः विधायकः राघवेन्द्रकुमारसिंहः,

पामगढ–विधानसभायाः विधायकाः श्रीमती शेषराजहरबंशः,

जिलापंचायतेः अध्यक्षाः सत्यलताआनन्दमिरी,

पूर्व–नेताः प्रतिपक्षस्य नारायणचन्देलः,

खनिजविकासनिगमस्य अध्यक्षः सौरभसिंहः,

पूर्वसंसदीयसचिवः अंबेशजांगड़े,

नगरपालिकाया जांजगीर–नैलायाः अध्यक्षाः श्रीमती रेखादेवा–गढ़ेवालः,

नगरपालिकापरिषदः चांपा–अध्यक्षः प्रदीपनामदेवः च भविष्यन्ति।

सांस्कृतिककार्यक्रमस्य रूपरेखा —

राज्योत्सवस्य अवसरि २–४ नवम्बरपर्यन्तं सायं चतुर्वादनात् षड्वादनपर्यन्तं शालेय–छात्र–छात्रिणां सांस्कृतिकप्रस्तुतयः भविष्यन्ति।

सायं षड्वादनात् रात्र्यष्टवादनपर्यन्तं स्थानीय–कलाकारैः सांस्कृतिकप्रस्तुतयः प्रदास्यन्ते।

तदनन्तरं —

द्वितीये नवम्बरदिने रात्र्यष्टवादनात् दशवादनपर्यन्तं छत्तीसगढीलोकगायकः देवेशशर्मा (जयअम्बेजागरण–समूहेन) प्रस्तुति दास्यति।

तृतीये नवम्बरदिने रात्र्यष्टवादनात् दशवादनपर्यन्तं छत्तीसगढीलोकगायकः सुनीलसोनी प्रस्तुति करिष्यति।

चतुर्थे नवम्बरदिने रात्र्यष्टवादनात् नववादनपर्यन्तं बिलासपुर–बॉलीवुड्–बैंड् इत्यस्य प्रस्तुति भविष्यति,

रात्रिनववादनात् दशवादनपर्यन्तं च छत्तीसगढीकलामञ्चः लोकरङ्ग–अर्जुन्दा इत्यनेन प्रस्तुति दीयते स्म।

---------------

हिन्दुस्थान समाचार