भारतीयजनतापक्षस्य सांसदः अनिलबलूनी इत्यस्य आवासे आयोजिते लोकउत्सवे ‘इगास्’ इत्यस्मिन् अमितशाहः सम्मिलितः
नवदेहली ३१ अक्टूबरमासः (हि.स.) । पौडिगढवाल–क्षेत्रात् भारतीयजनतापक्षस्य सांसदः अनिल–बलूनी इत्यस्य आवासे ‘इगास्’ इति लोक–उत्सवः महता हर्षेण उत्साहेन च आयोजितः। शुक्रवासरस्य सायंकाले सम्पन्ने अस्मिन् उत्सवे केंद्रीयगृहमन्त्री अमितशाहः, केंद्रीयमन्
देवभूमि के लोकपर्व ‘इगास’ उत्सव में पूजा अर्चना करते गृह मंत्री अमित शाह


पूजा अर्चना करते अमित शाह


नवदेहली ३१ अक्टूबरमासः (हि.स.) ।

पौडिगढवाल–क्षेत्रात् भारतीयजनतापक्षस्य सांसदः अनिल–बलूनी इत्यस्य आवासे ‘इगास्’ इति लोक–उत्सवः महता हर्षेण उत्साहेन च आयोजितः।

शुक्रवासरस्य सायंकाले सम्पन्ने अस्मिन् उत्सवे

केंद्रीयगृहमन्त्री अमितशाहः, केंद्रीयमन्त्री अश्विनीवैष्णवः, डॉ॰ जितेन्द्रसिंहः, देहलीमुख्यमन्त्री रेखागुप्ता, राष्ट्रसुरक्षापरामर्शकः अजीतडोभालः, गायकः जुबिननौटियालः च अन्ये च अनेकाः नेता उपस्थिताः आसन्।

अस्मिन् अवसरे गृहमन्त्री अमितशाहः पूजाम् अर्चनां च कृत्वा सर्वेभ्यः शुभाशंसनानि अदात्।

कार्यक्रमस्य अनन्तरं सः ‘एक्स्’ नामके सामाजिक–जाले लेखं प्रकाशितवान् यत्र उत्तराखण्ड–प्रदेशस्य सर्वेभ्यः भ्रातृभ्यः भगिनिभ्यश्च ‘देवभूमेः लोक–पर्वणः इगास्’ इत्यस्य शुभकामनाः अर्पितवान्।

सः अपि उक्तवान् यत्, एषः पर्वः सर्वेषां उत्तराखण्ड–वासिनां समृद्धेः उत्तरॊत्तर–विकासस्य च साधनं भूयात्।

अस्मिन् उत्सवे गायकः जुबिन्–नौटियालः स्वगीतैः वातावरणं मोहितवान्।

एवञ्च उत्तराखण्ड–प्रदेशात् आगताः कलाकाराः अपि स्व–पार्वतीय–गीतैः सर्वान् आनन्दितवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता