Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 1 नवंबरमासः (हि.स.)।बस्तर प्रदेशस्य नक्सलवाद प्रभावित प्रदेशेषु नक्सल अभियानं प्रारभ्य अनुवर्त्य एकस्मात् परम् एकां महतीं सफलतां सम्पाद्य छत्तीसगढ राज्यस्य द्विशत् द्वाविंशतिः २२२ अधिकारिणः विशेष संचालन क्षेत्रे अन्तर्गतं केंद्रीय गृह मन्त्रिणा दक्षता पदकेन सम्मानिताः भविष्यन्ति।
अस्मिन् विशेष संचालन क्षेत्रे समग्र भारते एकसहस्र त्रिशत् चतुष्षष्टिः १३६४ अधिकारी कर्मचारीणः अस्य सम्मानस्य कृते चयनिताः सन्ति, तेषु २२२ केवलं छत्तीसगढ राज्यस्य एव सन्ति।
वास्तवे मिशन २०२६ अन्तर्गतं ३१ मार्च २०२६ तिथेः पूर्वं बस्तरात् नक्सलवादस्य समूल उन्मूलनाय प्रयत्नं कुर्वन्ति ये अधिकारी कर्मचारीणः, ते सर्वे बस्तर संभागस्य विविध जनपद प्रदेशेभ्यः सन्ति।
केंद्रीय गृह मन्त्रिणः दक्षता पदकस्य कृते एडीजी विवेकानन्द सिन्हा तथा बस्तर आईजी सुन्दरराज पी इत्येतयोः नाम घोषणां कृतवती। विवेकानन्द महाभागः पूर्वं बस्तर आईजी इति रूपेण सेवां प्रदत्तवान्।
तथा सुक्मा एसपी किरण चव्हाण, बीजापुर एसपी डॉ. जितेन्द्र कुमार यादव, दन्तेवाडा एसपी गौरव रॉय, नारायणपुर एसपी प्रभात कुमार, कोंडागांव एसपी वाय्. अक्षय कुमार, नारायणपुर एसपी रॉबिन्सन गुरिया, एएसपी मयंक गुर्जर, एएसपी उमेश प्रसाद गुप्ता, एएसपी जयन्त कुमार वैष्णव, एसपी विकास कुमार इत्यादयः अन्ये च तत्र सम्मिलिताः आसन्।
अस्यां सम्मानसूच्यां सीआरपीएफ् इत्यस्य अनेक अधिकारी जवान सैनिकाश्च पदकैः अलंकृताः अभवन्।
तदनन्तरं सुक्मा प्रदेशे शहीदः एएसपी आकाश राव गिरपुञ्जे नामकः शौर्य पदकं प्राप्तवान्।
तथा सुक्मा, दन्तेवाडा, बीजापुर, नारायणपुर प्रदेशेषु च चतुर्दश १४ जवानानां नामानि अपि शौर्य पदकस्य कृते घोषितानि।
एषा छत्तीसगढ सर्वकारश्शुक्रवासरस्य सायं विलम्बेन औपचारिकतया घोषणां कृतवती।
---------------
हिन्दुस्थान समाचार