मुख्यमंत्री डॉ. यादवेन मध्यप्रदेशस्य सप्ततितमं स्थापना-दिवसस्य अवसरात्‌ प्रदेशवासिभ्यः शुभाशंसाः दत्ताः
भाेपालम्, 1 नवंबरमासः (हि.स.)। देशस्य हृदयप्रदेशः मध्यप्रदेशः अद्य (शनिवासरे) स्वस्य सप्ततितमं स्थापना-दिनं उत्सवेन आनन्दपूर्वकं पालयति। स्वातन्त्र्यानन्तरं देशे निर्वाचित-सरकारस्य गठनं जातमपि भूगोलिक-अस्थिरतायाः वातावरणं विद्यमानम् आसीत्। अनेकाः प
मुख्यमंत्री डॉ. यादव ने लोक आस्था के पावन पर्व 'छठ पूजा' पर  सभी नागरिकों को दी शुभकामनाएं


भाेपालम्, 1 नवंबरमासः (हि.स.)। देशस्य हृदयप्रदेशः मध्यप्रदेशः अद्य (शनिवासरे) स्वस्य सप्ततितमं स्थापना-दिनं उत्सवेन आनन्दपूर्वकं पालयति। स्वातन्त्र्यानन्तरं देशे निर्वाचित-सरकारस्य गठनं जातमपि भूगोलिक-अस्थिरतायाः वातावरणं विद्यमानम् आसीत्। अनेकाः प्रान्ताः भाषानुसारं भूगोलिकाधारं च स्वराज्यरूपेण स्थापितुं इच्छन्ति स्म। तस्मिन् समये 1956 तमे वर्षे देशे चतुर्दश नवानि राज्यानि गठितानि। तेषु एकं राज्यं आसीत्—मध्यप्रदेशः।

मध्यप्रदेशस्य स्थापना-दिनस्य अवसरात्‌ मुख्यमंत्री डॉ॰ मोहन यादवः प्रदेशवासिभ्यः शुभकामनाः प्रेषितवन्तः।

मुख्यमंत्री डॉ॰ यादवेन सामाजिक-सञ्चार-माध्यमे एक्स इति नामके माध्यमे स्वस्य शुभकामना-सन्देशः प्रकाशितः —“मध्यप्रदेशस्य सप्ततितमं स्थापना-दिनं प्रति सर्वेभ्यः हार्दिकाः शुभाशंसाः बधाइश्च। मध्यप्रदेशस्य एषा सप्ततिवर्षीय यात्रा समर्पणस्य, संकल्पस्य च सतत-विकासस्य सुखदा यात्रा आसीत्। एषः दिवसः अस्मान् अस्माकं पूर्वजानां परिश्रमं तेषां उत्साहं, जनसहभागितया सम्पन्नं विकासं च स्मारयति, लोकतान्त्रिक-मूल्यानां प्रति तेषां तथा अस्माकं आस्थां निष्ठां च बोधयति। आगच्छाम, वयं सर्वे मिलित्वा ‘विकसितं, आत्मनिर्भरं, सशक्तं च मध्यप्रदेशं’ निर्मातुं स्वीयं सक्रियं योगदानं दद्मः। सामूहिक-सहभागितया स्वमृत्तिकां, मातृभूमिं, प्रदेशं च सर्वेषां क्षेत्रेषु अग्रगण्यं कर्तुं एषः एव उचितः अवसरः अस्ति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता