Enter your Email Address to subscribe to our newsletters

वॉशिंगटनम्, 1 नवम्बरमासः (हि.स.)
अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः नाइजीरियायां ईसाईसमुदायस्य संकटं प्रति चिन्ता व्यक्तवान्।
अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः शुक्रवासरे उक्तवान् यत् नाइजीरियायां ईसाईसमुदायस्य जनाः अस्तित्वसंकटेन पीड्यन्ते। सः इस्लामीकट्टरपन्थिसङ्गठनान् प्रति आरोपं कृतवान् यत् ते ईसाईनाम् नरसंहारं कुर्वन्ति, अतः नाइजीरियायाः विशेषनिरीक्षणं करणीयम् इति निर्दिष्टवान्।
ट्रम्पः अवदत् — “यदा ईसाईसमुदायस्य लोकाः एतादृशं संकटं अनुभवन्ति, तदा अमेरिकादेशः मौनं न धारयेत्।”
सः उक्तवान् — “वयं विश्वभरस्थितान् ईसाईजनान् रक्षितुं सज्जाः, इच्छुकाः, समर्थाश्च स्मः।”
ट्रम्पः स्वस्य ट्रुथ सोशल इति माध्यमे पोस्टं प्रकाशित्य उक्तवान् यत् नाइजीरियायां ईसाईधर्मः अस्तित्वभयेन ग्रस्तः अस्ति। तेन दावा कृतः यत् सहस्रशः ईसाईजनाः निहताः भवन्ति, यस्य दायित्वं तेन कट्टरपन्थिसङ्गठनानां ऊपरि आरोपितम्।
अस्मिन् सन्दर्भे ट्रम्पेन नाइजीरियायाः विशेषनिरीक्षणस्य आदेशः दत्तः। सः अमेरिकाकाँग्रेसस्य सांसदं रिले मूरं, अध्यक्षं टॉम कोलं, सेनेटसमितिं च आमन्त्र्य उक्तवान् यत् एतत् प्रकरणं विचार्य अनुसन्धानं कृत्वा विस्तृतरिपोर्टं प्रस्तुत्य दीयताम्।
अमेरिकादेशः तेषु देशेषु विशेषनिरीक्षणश्रेणीं स्थापयति, ये देशाः तस्य मतानुसारं धार्मिकस्वातन्त्र्यस्य गम्भीरलङ्घने लिप्ताः भवन्ति।
---------------
हिन्दुस्थान समाचार