Enter your Email Address to subscribe to our newsletters

भारतीयचलच्चित्रजगतः महान् नायकः शाहरुख् खान् नामकः २ नवम्बर् १९६५ तमे वर्षे नूतनदिल्ल्यां जातः। असंख्यजनानां हृदयेषु राज्यं कुर्वन् अयं नायकः आदौ दूरदर्शनधारावाहिकेषु स्वं स्थानं निर्माय ततः चलच्चित्रक्षेत्रे प्रवेशं कृतवान्। शाहरुखस्य प्रथमं चलचित्रं ‘दीवाना’ इति आसीत् (१९९२), येन तं ‘बॉलीवुड्’ इत्यस्मिन् नूतनं प्रतिष्ठां दत्तवान्। प्रारम्भकाले सः ‘डर’, ‘बाज़ीगर’, ‘अञ्जाम’ इत्यादिषु चलचित्रेषु नायकविपरीतान् भूमिकाः निभृतवान्, किन्तु प्रेक्षकाः तस्य तद्रूपं अपि अत्यन्तं प्रीत्या स्वीकृतवन्तः। शीघ्रमेव सः ‘रोमांसस्य बादशाह’ इत्याख्यया प्रसिद्धः जातः।
‘दिलवाले दुल्हनिया ले जाएंगे’, ‘दिल तो पागल है’, ‘कुछ-कुछ होता है’, ‘देवदास’, ‘कल हो ना हो’, ‘वीर-ज़ारा’ इत्यादयः चलचित्राणि शाहरुखं भारतीयचलच्चित्रइतिहासे अमरं कृतवन्ति। ‘चक दे इंडिया’, ‘स्वदेस्’, ‘माय नेम इज़ खान्’ इत्येषु तस्य गम्भीरसंवेदनशीलाभिनयः अपि प्रकाशितः। न केवलं प्रेमनायकः, किन्तु ‘डॉन्’, ‘रईस’ इत्यादिषु अपराधीभूमिकाः अपि सहजतया निर्वहितवान्। तस्य भावप्रकाशनेन, नेत्रचेष्टया च, सर्वे भावाः सजीवा जाताः — एतस्मात् कारणात् सः प्रेक्षकानां प्रियतमः अभवत्।
त्रिंशदधिकवर्षपर्यन्तं दीर्घे करियरकाले शाहरुख् खान् न केवलं ‘बॉलीवुड्’ इत्यस्य, किन्तु भारतीयसंस्कृतेः अपि वैश्विकं गौरवं वर्धितवान्। तस्य प्रशंसकाः तं स्नेहात् ‘किंग् खान्’ अथवा ‘रोमांसकिङ्ग्’ इत्याख्यया संबोधयन्ति।
महत्वपूर्णाः ऐतिहासिकाः घटनाः
१७७४– ब्रिटिश् भारतीयसेनायाः कमाण्डर् इन् चीफ् राबर्ट् क्लाइव् नामकः इंग्लैण्डे आत्महत्या कृतवान्।
१८३४– एटलस् नामकं नौकं भारतीयश्रमिकान् वहित्वा मॉरिशस् प्रदेशं प्राप्तवती, यस्मिन् दिवसे ‘अप्रवासी दिवसः’ इति आचर्यते।
१८३५– अमेरिकादेशस्य मूलनिवासिनां गुटानां मध्ये फ्लोरिडाराज्ये ओसिओला नामस्थले द्वितीयः सेमीनोले युद्धः आरब्धः।
१८४१– अकबर् खान् इत्यनेन अफ़गानिस्थाने शाह् शुजाः विरुद्धं विद्रोहः कृतः।
१८५२ – फ्रेंकलिन् पियर्स् अमेरिकादेशस्य राष्ट्रपतिः अभवत्।
१९१४– रूसदेशेन तुर्किदेशस्य विरुद्धं युद्धं घोषितम्।
१९५०– जॉर्ज् बर्नार्ड् शॉ इत्यस्य ९७ वर्षे निधनम्।
१९८४– अमेरिकायां वेल्मा बार्फिल्ड् नामकाया महिलायाः मृत्युदण्डः।
१९९९– पाकिस्तानस्य राजधानी इस्लामाबादे संयुक्तराष्ट्रसंघस्य अमेरिकीकेन्द्रयोः उपरि रॉकेट् आक्रमणम्।
२००२– मुफ़्ती मोहम्मद् सईद् जम्मू-कश्मीरराज्यस्य मुख्यमन्त्री पदं स्वीकृतवान्।
२००५– गुलाम् नबी आजाद् अपि तत्रैव मुख्यमन्त्री अभवत्।
२००७ – डिस्कवरीयानस्य यात्री अन्तरिक्षात् सुरक्षितं पृथिव्यां प्रत्यागच्छन्।
जन्मानि
१८३३– महेन्द्रलाल सरकारः, समाजसुधारकः, होमियोपैथिचिकित्सकः।
१८७७ – आगा खाँ तृतीयः, निजारी इस्माईलीसम्प्रदायस्य आध्यात्मिकनेता।
१८९७ – सोहराब् मोदी, प्रसिद्धः अभिनेता-निर्माता-निर्देशकः।
१९६५ – शाहरुख् खान्, भारतीयचलच्चित्रनायकः।
१९८२– योगेश्वरदत्तः, कुश्तीखेलस्य प्रसिद्धः खिलाडी।
निधनानि
१८८५ – अण्णासाहेब किर्लोस्करः, मराठी नाट्यक्रान्तिकारी नाटककारः।
२०१२ – श्रीरामशंकर अभयंकरः, भारतीय-अमेरिकी गणितज्ञः।
अवसरः
अन्ताराष्ट्रियः रेड्क्रॉस् सप्ताहः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता