Enter your Email Address to subscribe to our newsletters

पश्चिमी सिंहभूमम्, 01 नवंबरमासः (हि.स.)। शनिवासरे गुरुद्वारपरिसरे रोटरी क्लब ऑफ् चायबासा तथा वॉलेंट्री ब्लड डोनर असोसिएशन इत्येतयोः संयुक्ततत्वावधानेन स्वर्गीयस्य हरभजनसिंह खोखरस्य स्मृत्यर्थं १६१तमः रक्तदानशिविरम् आयोजितः आसीत्। अस्मिन्नेव अवसरि उपायुक्तः चन्दनकुमारः मुख्यातिथिरूपेण उपस्थितः अभवत्।
शिविरस्थले आगमनकाले आयोजकैः पुष्पगुच्छेन अंगवस्त्रेण च उपायुक्तस्य स्वागतं कृतम्। उपायुक्तेन आयोजकान् स्वैच्छिक–रक्तदानशिविरस्य सफल–आयोजनाय साधुवादः दत्तः। सः अवदत् यत् रक्तदानं मानवतायाः महान् सेवा एव। रक्तदानं सुरक्षितप्रक्रिया अस्ति, अतः अस्मात् श्रेष्ठं दानं नास्ति। अस्माकं दत्तं रक्तं कस्यचित् जीवनं रक्षितुं शक्नोति।
एतस्मिन् अवसरे उपायुक्तेन स्वयमेव स्वैच्छिक–रक्तदानं कृतम् तथा सर्वान् चिकित्सकीय–परामर्शानुसारं नियमित–अन्तरेण रक्तदानं कर्तुं प्रार्थितवान्। सः अपि अवदत् यत् तेन निरन्तरं कालान्तरालं रक्तदानं क्रियते, सर्वे अपि अस्मिन् पुण्यकार्ये अग्रे आगन्तुम् अर्हन्ति इति।
शिविरे सर्वतः दश यूनिट्–रक्तस्य संग्रहः कृतः। अस्मिन् अवसरे प्रभारी–चिकित्सक–पदाधिकारी डॉ॰ जगन्नाथ हेम्ब्रम, रोटरी–क्लब–अध्यक्षः विकास दोदराजका, गुरमुखसिंह खोखर, सुशील मुन्धरा, मदनगुप्त इत्येते सदस्याः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार