Enter your Email Address to subscribe to our newsletters

भोपालम्, 1 नवम्बरमासः (हि.स.)। हिन्दू धर्मे एकादशी तिथेः परमं विशेषं महत्त्वं मन्यते। प्रतिमासं कृष्णशुक्लपक्षयोः एकादशी व्रतं पाल्यते। एवं वर्षे 24 एकादश्यः भवन्ति। सर्वासु अपि एकादश्यः विष्णोर्लक्ष्म्योः च आराधनां क्रियते। तासां मध्ये अत्यन्तं पवित्रा देवोत्थानैकादशी, या देवप्रबोधिनी एकादशी इति अपि कथ्यते। अस्यां तिथौ भगवान् विष्णुः चतुर्मासपर्यन्तं योगनिद्रां त्यक्त्वा पुनः सृष्टेः संचालनम् आरभते। अस्मिन् दिवसे चातुर्मासस्य समाप्तिः भवति, शुभमाङ्गलिककर्मणां च पुनरारम्भः सम्भवति।
देवोत्थानैकादशी तिथिः समयश्च
वैदिकपञ्चाङ्गानुसारं कार्तिकशुक्लपक्षस्य एकादशी तिथि अद्य शनिवासरे नवम्बरमासस्य प्रथमे दिवसे अस्ति। सा तिथि प्रातः 9:11निवेशात् आरभ्य द्वितीयदिवसे प्रातः 7:31निवेशे समाप्तं भविष्यति। उदयतिथिः अद्य एव अस्ति, अतः व्रतम् अद्य एव करणीयम्। व्रतपारणं द्वादश्यां कर्तव्यं, यत् कालः भवति – नवम्बरद्वितीयदिवसे मध्यान्हे 11:03 वादनतः 23 निवेश-पर्यन्तं भविष्यति। तस्मिन् काले व्रतसमापनं कर्तुं शक्यते। सूर्योदयः तस्मिन् दिवसे 6:34 निवेशे भविष्यति।
एषा देवोत्थानैकादशी विष्णोर्जागरणदिवसं, मानवजीवने शुभारम्भस्य नवऊर्जायाश्च प्रतीकः। अस्यां तिथौ कृतं व्रतं, पूजा, दानं च अनन्तं पुण्यं ददाति। एषा एकादशी भक्तानां आध्यात्मिकम् उत्कर्षं शुभफलप्रदां च मन्यते।
देवोत्थानैकादशी पूजाव्रतविधिः
प्रातः स्नानं कृत्वा विष्णोः लक्ष्म्याश्च पूजा कार्यते। विष्णोः चरणयोः तुलसीदलस्य अर्पणं परमं शुभं मन्यते। शालिग्रामरूपेण विष्णोः आराधनं दीप, धूप, पुष्प, फल, तुलसी, पंचामृताभिषेकैः सह कर्तव्यम्।
व्रतस्य नियमाः — व्रतदिवसे सात्त्विकभोजनमेव सेवनं कार्यम्। तामसिकभोजनं, लशुनं, पलाण्डुं, तण्डुलं च वर्जनीयम्। कृष्णवर्णीयानि वस्त्राणि न धृतव्यानी। गृहे पूजास्थले च स्वच्छतायाः विशेषं ध्यानं दातव्यम्, यतः लक्ष्मीः स्वच्छतायां वसति। द्वादश्यां नियतकालं पारणं कर्तव्यम्। पारणानन्तरं अन्नवस्त्रधनदानं च अत्यन्तं पुण्यकरं, यत् सुखसमृद्धिसौभाग्यप्रदं भवति।
पूजनमुहूर्ताः (1 नवम्बर 2025)
ब्रह्ममुहूर्तः – प्रातः 4:50 – 5:41
अभिजित्मुहूर्तः – 11:42 – 12:27
विजयमुहूर्तः – 1:55 – 2:39
गोधूलिमुहूर्तः – 5:36 – 6:02
अमृतकालः – 11:17 – 12:51
रवियोगः – 6:33 – 6:20 संध्याकालपर्यन्तम्।
एतेषु मुहूर्तेषु कश्चन अपि विष्णुपूजायाः अनुकूलः मन्यते।
विष्णोः प्रमुखमन्त्राः
१. विष्णुध्यानमन्त्रः
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥
२. महामन्त्रः
ॐ नमो भगवते महासुदर्शनाय वासुदेवाय धन्वंतरये,
अमृतकलशहस्ताय सर्वभयविनाशाय सर्वरोगनिवारणाय,
त्रिलोकपथाय त्रिलोकनाथाय श्रीमहाविष्णुस्वरूपाय नमः॥
धार्मिकमहत्त्वम्
पुराणेषु निर्दिष्टं यत् चातुर्मासे विष्णुः क्षीरसागरे योगनिद्रां गच्छति। तस्मिन्काले विवाहगृहप्रवेशादि माङ्गलिककर्माणि न क्रियन्ते। देवोत्थानैकादश्यां विष्णोर्जागरणेन पुनः शुभकर्मारम्भः भवति। अस्यां तिथौ तुलसीविवाहस्य विशेषमहत्त्वं विद्यते। शालिग्रामविष्णोस्तुलसीदेव्याश्च विवाहं कृत्वा भक्ताः महत् पुण्यं लभन्ते। एतद्व्रतं सुखसमृद्धिशान्तिप्रदम्, सर्वपापनाशकरं, मोक्षदं च मन्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता