Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 1 नवंबरमासः (हि.स.)।केन्द्रीय–शिक्षामन्त्री धर्मेन्द्रः प्रधानः देशस्य विख्यातः साहित्यकारः शिक्षाविद् च रामदरश–मिश्रः इत्यस्य निधनं प्रति गम्भीरं शोकं व्यक्तवान्।
धर्मेन्द्र–प्रधानः स्वस्य सामाजिक–माध्यमे प्रकाशिते शोक–सन्देशे लिखितवान् —
“विख्यातस्य साहित्यकारस्य शिक्षाविदः च रामदरश–मिश्र–जी–महाभागस्य निधनस्य दुःखदं समाचारं प्राप्तम्। तस्य अद्वितीया लेखनी हिन्ङ्दी–भोजपुरी–साहित्ययोः नूतनां दिशां प्रदत्तवती। तस्य रचनाः जीवनस्य गूढ–सत्यानि प्रकाशयन्त्यः समाजस्य जागरणं कुर्वन्ति स्म। एषा अपूरणीया क्षतिः, यस्य प्रसङ्गे अहं तस्य परिवारस्य तथा सर्वेषां साहित्य–प्रेमिणां प्रति आत्मीयं शोकं संवेदनां च व्यक्तीकरोमि।
---------------
हिन्दुस्थान समाचार