मध्यप्रदेशः- देव प्रबोधिनी एकादश्यां 3,51,111 दीपैः प्रकाशिष्यते श्रीराम पथ गमन क्षेत्रम्
- राम पथ गमनस्य जिलासु अद्य शाम दीपोत्सव पर्वणः-2025 आयोजनम् भोपालम्, 1 नवम्बरमासः(हि.स.)मध्यप्रदेशे देवप्रबोधिनीएकादश्याः पावनसंदर्भे दीपोत्सवपर्वणः २०२५ आयोज्यते। अद्य विक्रमसंवत् २०८२ तस्य कार्तिकशुक्लएकादश्यां मध्यप्रदेशराज्ये देवप्रबोधिनीएका
श्रीराम पथ गमन क्षेत्र में दीपोंत्सव (प्रतीकात्मक तस्वीर)


- राम पथ गमनस्य जिलासु अद्य शाम दीपोत्सव पर्वणः-2025 आयोजनम्

भोपालम्, 1 नवम्बरमासः(हि.स.)मध्यप्रदेशे देवप्रबोधिनीएकादश्याः पावनसंदर्भे दीपोत्सवपर्वणः २०२५ आयोज्यते। अद्य विक्रमसंवत् २०८२ तस्य कार्तिकशुक्लएकादश्यां मध्यप्रदेशराज्ये देवप्रबोधिनीएकादश्याः पावनावसरे “दीपोत्सवपर्व–२०२५” इत्यस्य भव्यः उत्सवः आयोज्यते। अस्य पर्वणः अन्तर्गतं रामपथगमन–क्षेत्रस्य नव स्थलेषु ३,५१,१११ दीपैः श्रीरामचन्द्रस्य, मातुः सीतायाः, माँ नर्मदायाः, माँ मन्दाकिन्याश्च दीपाराधना करिष्यते।

दीपप्रज्वलनसमये भक्तिसंगीतसन्ध्या अपि भविष्यति, यस्याम् प्रदेशस्य प्रसिद्धाः कलाकाराः भक्तिगीतानां प्रस्तुतीं दास्यन्ति। एषः कार्यक्रमः श्रीरामचन्द्र पथगमनन्यासेन जिलाप्रशासनस्य सहयोगेन समन्वितः अस्ति।

मुख्यस्थलानि एवं आयोजनविवरणम् —चित्रकूटे राघवप्रयागघाटे–पञ्चवटीघाटे, अमरकण्टके रामघाटे, मैहरे आल्हातलयायां, नर्मदापुरे सेठानीघाटे, कटनेः कटायेघाटतालाबे, पन्नायाः धरमसागरतालाबे, उमरियायाः प्राचीनसगरमन्दिरे च दीपार्चनं भविष्यति।

संस्कृतिविभागस्य संचालकः तथा न्यासस्य मुख्यकार्यपालकः एन.पी. नामदेवः उक्तवान्—“आध्यात्मिकानुभूतिप्रदं एतत् आयोजनं जनजनस्य हृदये प्रभोः श्रीरामचन्द्रस्य आदर्शान् प्रसारितुं समर्थं भविष्यति।”

अमरकण्टके रामघाटे माँ नर्मदातटे ५१,००० दीपाः प्रज्वलिताः भविष्यन्ति। उद्गममन्दिरे मुख्यपुरोहितेन सह सप्त पुरोहिताः माँ नर्मदायाः महाआरतीं करिष्यन्ति। तत्र जबलपुरस्य मनीष अग्रवालः भक्तिगायनं करिष्यति।

चित्रकूटे राघवप्रयागघाटे १,११,१११ दीपप्रज्वलनं भविष्यति, पञ्चदश पुरोहितैः माँ मन्दाकिन्याः महाआरती च। तत्र सागरस्य “विभोर” इण्डियन फ्यूजन बैंड श्रीरामकेंद्रितभजनेषु प्रस्तुतीं करिष्यति।पञ्चवटीघाटे २१ सहस्रदीपप्रज्वलनेन सह महाआरती च भविष्यति। तत्र बालाघाटस्य मुस्कान चौरस्या भक्तिगायनं करिष्यति।

मैहरे आल्हातलयायां ५१,००० दीपाः प्रज्वलिष्यन्ति। सप्त पुरोहितैः माँ शारदायाः महाआरती करिष्यते। सागरस्य साक्षी पटेरिया सहकर्मिभिः भक्तिगीतानि गायिष्यति।

नर्मदापुरे सेठानीघाटे ५१,००० दीपाराधना, सप्तपुरोहितैः माँ नर्मदायाः महाआरती, तथा भोपालस्य “दीप म्यूज़िकल ग्रुप” इत्यस्य कलाकाराः श्रीरामभजनेषु अवधी–मध्यदेशीयलोकगीतानां प्रस्तुतीं करिष्यन्ति।

कटने कटायेघाटे १५,००० दीपप्रज्वलनं, पञ्चपुरोहितैः महाआरती च। नर्मदापुरस्य नमन तिवारी सहकर्मिभिः लोकभजनैः भक्तिमयं वातावरणं करिष्यन्ति।

पन्नायां धरमसागरतालाबतटे ११,००० दीपप्रज्वलनं च महाआरती च। पन्नायाः वेदिका मिश्रा सहकला–कारिण्या भजनप्रस्तुतीं करिष्यति।

उमरियायां प्राचीनसगरमन्दिरे ३१,००० दीपार्पणं महाआरती च। कटनेः सत्यम् आरखः सहकर्मिभिः भक्तिगायनं करिष्यति।

शहडोले श्रीरामचन्द्रपथगमनस्थले सीतामढी (गन्धिया) इत्यत्र नवम्बरमासस्य पञ्चमे दिने ११,००० दीपप्रज्वलनं श्रीराम–सीतायोः महाआरती च भविष्यति। तत्र उमरियायाः बबली यादव सहकर्मिभिः भक्तिगीतानि प्रस्तुत्य दास्यति।

---

हिन्दुस्थान समाचार