मध्यप्रदेशस्य 70तमः स्थापनादिवसः — जनपदेषु भविष्यन्ति भव्यायोजनानि, मन्त्री–सांसदविधायकजनप्रतिनिधयः सहभागिनः च भविष्यन्ति
भोपालम्, 1 नवम्बरमासः (हि.स.) । मध्यप्रदेश–राज्यस्य सप्ततितमः स्थापनादिवसस्य अवसरे अद्य शनिवासरे समग्र–प्रदेशे जनपदस्तरीये भव्य–कार्यक्रमाः आयोजिताः भविष्यन्ति। राज्य–सर्वकारः सर्वेषां जनपदानां मुख्यालयानां प्रति गरिमायुक्त–कार्यक्रमेषु सहभागी–भवना
मध्य प्रदेश 70वां स्थापना दिवस


भोपालम्, 1 नवम्बरमासः (हि.स.) । मध्यप्रदेश–राज्यस्य सप्ततितमः स्थापनादिवसस्य अवसरे अद्य शनिवासरे समग्र–प्रदेशे जनपदस्तरीये भव्य–कार्यक्रमाः आयोजिताः भविष्यन्ति। राज्य–सर्वकारः सर्वेषां जनपदानां मुख्यालयानां प्रति गरिमायुक्त–कार्यक्रमेषु सहभागी–भवनाय आदेशाः निर्गताः सन्ति।

यथोक्तं शुक्रवासरे निर्गते आदेशे —मुख्यमन्त्री डॉ॰ मोहनयादवः भोपाले, विधानसभाध्यक्षः नरेन्द्रसिंहतोमरः ग्वालियरे, उपमुख्यमन्त्री राजेन्द्रशुक्लः रीवायाम्, विधायकः हेमन्तखण्डेलवालः बैतूले, मन्त्री कुंवरविजयशाहः खण्डवे, मन्त्री कैलाश–विजयवर्गीयः इन्दौरे, मन्त्री प्रह्लादसिंहपटेलः च मन्त्री रावउदयप्रतापसिंहः नरसिंहपुरे, मन्त्री राकेशसिंहः जबलपुरे, मन्त्री तुलसीरामसिलावटः देवासे, मन्त्री करणसिंहवर्मा सीहोरे, मन्त्री सम्पतिया–उइके मण्डले, मन्त्री एदलसिंहकंशाना मुरैणे, मन्त्री निर्मलाभूरिया झाबुआ–नगरे, मन्त्री गोविन्दसिंहराजपूतः सागरे, मन्त्री नारायणसिंहकुशवाहः निवाड्यां च कार्यक्रमेषु सहभागी–भविष्यन्ति।

एवञ्च मन्त्री नागरसिंहचौहानः अलीराजपुरे, मन्त्री प्रद्युम्नसिंहतोमरः शिवपुर्यां, मन्त्री चेतन्यकाश्यपः रतलामे, मन्त्री इन्दरसिंहपरमारः शाजापुरे, राज्यमन्त्री (स्वतन्त्र–प्रभार) दिलीपजायसवालः अनुप्पुरे, राज्यमन्त्री (स्वतन्त्र–प्रभार) गौतमटेटवालः उज्जयिन्यां, राज्यमन्त्री (स्वतन्त्र–प्रभार) लखनपटेलः दमोहे, राज्यमन्त्री (स्वतन्त्र–प्रभार) कृष्णागौरः नर्मदापुरे, राज्यमन्त्री (स्वतन्त्र–प्रभार) नारायणसिंहपंवारः राजगढे, राज्यमन्त्री प्रतिमाबागरी सतनायाम्, राज्यमन्त्री दिलीपअहिरवारः छतरपुरे, राज्यमन्त्री राधासिंहः सिङ्गरौलौ, राज्यमन्त्री नरेन्द्रशिवाजीपटेलः रायसेने च आयोजितेषु कार्यक्रमेषु उपस्थिताः भविष्यन्ति।

एवमेव लोकसभा–सांसदाः — संध्यारायः भिण्डे, हिमाद्रिसिंहः शहडोले, भारतीपारधी बालाघाटे, ज्ञानेश्वरपाटिलः बुरहानपुरे, महेन्द्रसिंहसोलंकी आगर–मालवे, सुधीरगुप्तः मन्दसौरे, गजेन्द्रसिंहपटेलः खरगोणे, डॉ॰ राजेशमिश्रः सीध्यां, जनार्दन–मिश्रः मौगञ्जे, बण्टीविवेकसाहुः छिन्दवाडायाम्, फग्गनसिंहकुलस्तेः सिवन्यां, शिवमङ्गलसिंहतोमरः श्योपुरे, राज्यसभासांसदः बंशीलालगुर्जरः नीमचे, राज्यसभासांसदः डॉ॰ सुमेरसिंहसोलंकी बडवाने, माया–नारोलिया पांढुर्णायाम्, विधायकः बृजेन्द्रप्रतापसिंहः पन्नायाम्, नीनावर्मा धारायाम्, मीनासिंहमाण्डवे उमरियायाम्, हरिशङ्करखटीकः टीकमगढे, ओमप्रकाशधुर्वे डिण्डौरी–नगरे, प्रदीपअग्रवालः दत्यायाम्, श्रीकान्तचतुर्वेदी मैहरे, देवेन्द्रजैनः गुणायाम्, संदीपजायसवालः कट्न्यां, जगन्नाथसिंहरघुवंशी अशोकनगरे, मुकेशटण्डनः विदिशायाम् तथा जनपद–पंचायत–अध्यक्षः गजेन्द्रसहायः हरदायाम् — एते सर्वे कार्यक्रमेषु मुख्य–अतिथयः भविष्यन्ति।

एते सर्वे राज्यस्य एकता–प्रगति–विकासयोः सामूहिक–प्रतिबद्धतां रेखाङ्कयिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता