Enter your Email Address to subscribe to our newsletters

रायपुरम्, 01 नवम्बरमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदिना शनिवासरे छत्तीसगढराज्यस्य स्थापना-दिवसोत्सवस्य अवसरं प्रति रायपुरनगरस्य एकदिवसीयप्रवासे सति, नव रायपुरस्य सेक्टर्–२० मध्ये स्थितस्य ‘ब्रह्माकुमारीसंस्थानस्य’ नवनिर्मितस्य “शान्तिशिखर रिट्रीट् सेन्टर”- इत्यस्य ध्यानकेन्द्रस्य लोकार्पणं कृतम्।
अयं शान्तिशिखर-ध्यानकेन्द्रः अर्धतोऽधिकैकवारक-क्षेत्रे (१.५ एकर्) निर्मितः अस्ति।
प्रधानमन्त्री ब्रह्माकुमारीशान्तिशिखरं प्राप्तः तस्य मालया खुमड्या च अभिनन्दितः।
अस्मिन् अवसरे नविशिष्टातिथिरूपेण राज्यपालः रमेन डेका उपस्थितः आसीत्। संस्थायाः पक्षतः अतिरिक्तमुख्यप्रशासिका राजयोगिनी जयंती, अतिरिक्तमहासचिवः डॉ॰ राजयोगी बी.के. मृत्युंजयः, रायपुरक्षेत्रस्य संचालिका बी.के. सविता च तत्र सन्निहिता आसन्।
संस्थायाः प्राप्तसंदेशानुसारं, तत्कालीनक्षेत्रीया निदेशिका राजयोगिनी बी.के. कमला इत्यस्याः निर्देशनस्य अधीनं शान्तिशिखरस्य शिलान्यासः १५ जनवरी २०१८ तमे दिने कृतः। सैव वर्षे २०२२ देवलोकं गता।
जोधपुरस्य शिल्पिभिः सप्तवर्षेभ्यः राजस्थानशैलिकया एषः भवनः निर्मितः। तदर्थं जोधपुरात् १५० अधिकैः भारवाहकयानैः गुलाबशिलाः (पिङ्क् स्टोन्) आगमिताः।
इन्दौर–क्षेत्रस्य पूर्वनिदेशकः राजयोगी ओमप्रकाशभ्राता इत्यस्य संकल्पः आसीत् यत् रायपुरे ब्रह्माकुमारीसंस्थायाः अद्वितीयं रिट्रीट्–केन्द्रं निर्मीयेत। तदेव संकल्पं ‘शान्तिशिखर’ इति रूपेण साकारं कृतम्।
ब्रह्माकुमारीसंस्थया विश्वे प्रथमवारं पिङ्क्–शिलायाः निर्मिता एषा भवना। छत्तीसगढराज्ये अपि प्रेस्–टेन्साइल्–बीम्–नाम्ना तन्त्रेण निर्मितः एषः प्रथम–भवनः अस्ति। सामान्यतः अस्य तन्त्रस्य उपयोगः महत्सु सेतु–निर्माणेषु क्रियते।
एषः भवन १०५ फुट् उन्नताः, १५० फुट् विस्तृताः, २२५ फुट् दीर्घाः च अस्ति। अस्यामधुना द्वौ तलौ अपि निर्माणीयौ स्तः।
ब्रह्माकुमारीसंस्थानस्य रायपुर–एककान्तर्गतं ५० सेवाकेन्द्राणि, ५०० उपसेवाकेन्द्राणि च सञ्चालयन्ति। शान्तिशिखरनिर्माणार्थं सर्वेषु केन्द्रेषु दाननिधिः (भण्डारी) स्थापितः। संस्थासम्बद्धाः सर्वे सदस्याः २०१८ वर्षात् प्रतिदिनं न्यूनातिन्यूनं एकं रूप्यकं यावत् दानं कुर्वन्ति स्म।
एतस्य भवननिर्माणे सर्वं कार्यं सूक्ष्मतया, सावधानतया च सम्पन्नम्।
ब्रह्माकुमारीसंस्थायाः रायपुरक्षेत्रसंचालिका राजयोगिनी बी.के. सविता उक्तवती यत् — “प्रायः द्व्येकवारक–भूमिपरिमाणे निर्मितं एतत् भवनं दृष्ट्या राजस्थानी–राजमहलस्य भावं जनयति। एष पञ्चमंतलियः भवनः आधुनिकसुविधाभिः युक्तः अस्ति।”
हिन्दुस्थान समाचार / अंशु गुप्ता