Enter your Email Address to subscribe to our newsletters

रायपुरम् 1 नवंबरमासः (हि.स.)।छत्तीसगढराज्यस्य पंचविंशः स्थापना–दिवसः — प्रधानमन्त्रिणा नरेन्द्रमोदिना, गृहमन्त्रिणा अमितशाहेन च शुभाशंसनम्अद्य शनिवासरे, प्रथमे नवम्बरमासे, छत्तीसगढराज्यम् स्वस्य पञ्चविंशं स्थापना–दिवस–उत्सवम् आचरत्। अस्मिन् अवसरेऽस्मिन् भारतस्य प्रधानमन्त्रिणा श्री–नरेन्द्रमोदिना तथा केन्द्रीय–गृहमन्त्रिणा श्री–अमितशाहेन च राज्यवासिभ्यः हार्दिकाः शुभाशंसाः प्रदत्ताः।प्रधानमन्त्री नरेन्द्रमोदी स्वस्य सामाजिक–जाल–माध्यमे ‘एक्स्’ इत्यस्मिन् लिखितवान् —“छत्तीसगढराज्यस्य स्थापना–दिवसस्य पञ्चविंशतितमे वार्षिके सर्वेभ्यः छत्तीसगढवासिभ्यः मम हार्दिकाः शुभकामनाः।प्रकृत्या संस्कृत्या च समृद्धं एतत् प्रदेशं नित्यं नूतनान् प्रगतिमार्गान् निर्माय प्रयतते।यत्र पूर्वं नक्सलवादस्य प्रभावः आसीत्, तत्र अधुना विकासस्य स्पर्धा दृश्यते।मम विश्वासः अस्ति यत् अस्य प्रदेशस्य श्रमशीलाः, कुशलाः च जनाः स्वीयेन उद्योगेन, निष्ठया च विकसित–भारतस्य दृष्टेः पूर्तौ महत्वपूर्णं योगदानं दास्यन्ति।”एवमेव केन्द्रीय–गृहमन्त्री अमितशाहः अपि स्व–‘एक्स्’–सन्देशे लिखितवान् —“छत्तीसगढवासिभ्यः राज्य–स्थापना–दिवसस्य शुभकामनाः।जनजातीय–संस्कृत्या कलाभिः च समृद्धं एतत् प्रदेशं नक्सलवाद–नामक–विकास–विघ्नकं दोषं निवारयितुं केन्द्र–राज्य–उभे सर्वकारे दृढ–संकल्पिते स्तः।नक्सलवादः अधुना देशे अन्तिम–श्वासान् गणयति।एकत्रिंशत् मार्च् 2026 तिथिपर्यन्तं ‘लाल–आतङ्कस्य’ समूल–उच्छेदं कृत्वा, भारतीय–जनता–पक्षस्य केन्द्र–राज्य–सर्वकारे छत्तीसगढे नव–विकास–युगस्य प्रारम्भं करिष्यतः।”
हिन्दुस्थान समाचार