Enter your Email Address to subscribe to our newsletters



- भारतरत्न-अटल बिहारीवाजपेयी इत्यस्य भव्यप्रतिमायाः अपि अनावरणं कृतम्।
रायपुरम्, 01 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे नवा रायपुरे स्थितछत्तीसङ्गढस्य नूतनविधानसभाभवनस्य उद्घाटनं कृतवन्तः। तेन सहैव नूतन विधानसभाभवने समक्ष स्थापितं पूर्वप्रधानमन्त्री भारतरत्न अटल बिहारी वाजपेयीस्य भव्यप्रतिमायाः अनावरणं कृत्वा तं नमनं कृतवन्तः तथा “एक पेड़ मां के नाम” अभियानस्य अंतर्गत वृक्षारोपणं अपि कृतम्। नूतनं विधानसभाभवनं २७३.११ कोटिः रूप्यकाणां व्ययेन निर्मितम्।
अस्मिन् उद्घाटनसुअवसरं राज्यपालः रमनडेका, विधानसभााध्यक्षः डॉ. रमनसिंहः, लोकसभाध्यक्षः ओम बिरला, मुख्यमंत्री विष्णुदेवसायः, नेता प्रतिपक्षः चरणदास महंत, संसदीयकार्यमन्त्री केदार कश्यप, सांसदः बृजमोहन अग्रवाल च तथा अन्य मन्त्रिणः अपि उपस्थिताः आसन्।
________________
हिन्दुस्थान समाचार / अंशु गुप्ता