झारखंड राजभवने विभिन्न राज्यानां स्थापना दिवसो, राज्यपालेन दत्ताश्शुभकामनाः
रांची, 01 नवंबरमासः (हि.स.)। राँचीस्थितराजभवने शनिवासरे विभिन्नराज्यानां केन्द्रशासितप्रदेशानां च स्थापना–दिवसस्य अवसरः भव्यसमारोहेन आचीयते स्म। तस्मिन् अवसरे राज्यपालः सन्तोषकुमारगंगवारमहाभागः तत्रस्थान् नागरिकान् हृदयपूर्वकं शुभाशंसाः अभिनन्दनानि
राजभवन के कार्यक्रम में राज्यपाल सहित अन्य


राज्यपाल कार्यक्रम को संबोधित करते हुए


रांची, 01 नवंबरमासः (हि.स.)। राँचीस्थितराजभवने शनिवासरे विभिन्नराज्यानां केन्द्रशासितप्रदेशानां च स्थापना–दिवसस्य अवसरः भव्यसमारोहेन आचीयते स्म। तस्मिन् अवसरे राज्यपालः सन्तोषकुमारगंगवारमहाभागः तत्रस्थान् नागरिकान् हृदयपूर्वकं शुभाशंसाः अभिनन्दनानि च अर्पितवान्।

राज्यपालः उक्तवान् यत् जम्मू–काश्मीर–लद्दाख–आन्ध्रप्रदेश–छत्तीसगढ–हरियाणा–कर्णाटक–केरल–मध्यप्रदेश–पञ्जाब–तमिलनाडु–अण्डमान–निकोबार–द्वीपसमूह–चण्डीगढ़–दिल्ली–लक्षद्वीप–पुडुचेरी इत्यादीनां स्थापना–दिवस–समारोहेषु भारतवर्षं “विविधता–एकता–रूपेण अद्वितीयं उदाहरणम्” इति प्रतिपन्नम् अस्ति। प्रत्येकं राज्यं स्वस्य विशिष्ट–परिचयेन, संस्कृत्या, परम्परया च राष्ट्रं सशक्तं करोति इति।

ते अवदन् यत् “एकभारत–श्रेष्ठभारत” इति कार्यक्रमः प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रेरणादायिनी योजना अस्ति, या राज्येषु पारस्परिकं सम्वेदनं सांस्कृतिकैक्यं च बलेन स्थापयति।

ते सरदारवल्लभभाईपटेलस्य जयंतीं, जम्मू–काश्मीर–लद्दाखयोः स्थापने च स्मरन्तः उक्तवन्तः यत् अनुच्छेद–३७०–निरसनं समानाधिकार–प्राप्तेः दिशि ऐतिहासिकं मीलस्थम्भरूपं निर्णयम् आसीत् इति।

‘ऑपरेशन–सिन्दूर’ नामकस्य अभियानस्य प्रशंसा कृत्वा ते उक्तवन्तः यत् अस्य अभियानस्य फलरूपेण भारतदेशः मानवीयसंवेदनायाः शीघ्रक्रियायाः च विश्वमञ्चे प्रतिष्ठां प्राप्तवान्।

राज्यपालः विभिन्नराज्यानां सांस्कृतिक–आर्थिक–सामाजिक–वैशिष्ट्यानि निर्दिश्य उक्तवान् यत् देशस्य विविध–प्रदेशेभ्यः आगताः नागरिकाः झारखण्डराज्यस्य प्रगतौ महत्वपूर्णं योगदानं वहन्ति इति।--------------

हिन्दुस्थान समाचार