प्रसिद्धः साहित्यकारः पद्मश्री प्रो. रामदरशः मिश्रः अद्य अन्त्यसंस्कारं प्राप्नोति। ते शतवर्षीयं जीवनयात्रां पूर्णां कृत्वा गतरात्रौ अन्तिमं श्वासं निःश्वस्य शरीरत्यागं कृतवन्तः
नवदेहली— 01 नवम्बरमासः (हि.स.)। प्रख्यातः साहित्यविशारदः प्रॊ.रामदरशः मिश्रः शुक्रवासरे रात्रौ दिवंगतः। तेन देहलीनगरस्य द्वारकाभागे स्वगृहे एव अन्तिमं प्राणत्यागः कृतः। तेषां अन्त्यसंस्कारः अद्य प्रातः एकादशवादने पालमनगरस्थे मंगलपुरीश्मशानतटे भवि
साहित्यकार प्रो.रामदरश मिश्र


नवदेहली— 01 नवम्बरमासः (हि.स.)। प्रख्यातः साहित्यविशारदः प्रॊ.रामदरशः मिश्रः शुक्रवासरे रात्रौ दिवंगतः।

तेन देहलीनगरस्य द्वारकाभागे स्वगृहे एव अन्तिमं प्राणत्यागः कृतः।

तेषां अन्त्यसंस्कारः अद्य प्रातः एकादशवादने पालमनगरस्थे मंगलपुरीश्मशानतटे भविष्यति।

तेषां परिवारसदस्यानाम् उक्तिः— “प्रो. रामदरशः मिश्रः स्वां शताब्दीपर्यन्तां जीवनयात्रां समाप्य अनन्तयात्रां प्रति गतान्” इति।

रामदरशः मिश्रः सन् २०२५ तमे वर्षे भारतस्य चतुर्थेन सर्वोच्चेन नागरकपुरस्काररूपेण “पद्मश्री”-सम्मानं प्राप्तवान्।

तस्मै तस्य कवितासङ्ग्रहे “-मैं तो यहां हूं-” इत्यस्मिन् कृते सन् २०२१ तमे वर्षे सरस्वतीसम्मानः प्रदत्तः।

सन् २०१५ तमे वर्षे तस्य कवितासङ्ग्रहे “अग्नि की हंसी” इत्यस्मिन् कृते साहित्य-अकादमीपुरस्कारः दत्तः।

शिक्षा

रामदरशः मिश्रः पञ्चदशदिनाङ्के अगस्त्-मासस्य सन् १९२४ तमे वर्षे गोरखपुरजनपदे डुमरीग्रामे जातः।

तस्य प्रारम्भिकशिक्षा ग्रामीयप्राथमिक-मध्यविद्यालये सम्पन्ना।

सः तस्मात् विद्यालयात् हिन्दी-उर्दूभाषाभ्यां सहितं मध्यश्रेणीपरीक्षां उत्तीर्ण्य ‘विशेषयोग्यता’-नामकाध्ययनार्थं ग्रामात् दशमीलदूरं ढरसीग्रामं गतवान्।

तत्र पण्डितरामगोपालशुक्लः ‘विशेषयोग्यता’-विषयस्य अध्यापकः आसीत्।

तस्य अध्ययनस्य समापनानन्तरं मिश्रः बरहज-नगरतः ‘विशारद’ ‘साहित्यरत्न’ इत्युभे परीक्षे उत्तीर्णवान्।

अनन्तरं सः आङ्ग्लभाषाशिक्षणेनापि सम्बद्धः अभवत्।

सन् १९४७ तमे वर्षे सः ‘मध्यमिक’-परीक्षार्थं वाराणसीं गतः, तत्र च बनारसहिन्दुविश्वविद्यालये प्रवेशं प्राप्तवान्।

तत्र सः ‘उच्चमाध्यमिक’, ‘बी.ए.’, ‘एम्.ए.’ च कृत्वा ‘पी.एच्.डी.’-नामकं शोधकार्यं सम्पादितवान्।

अध्यापनः

सन् १९५६ तमे वर्षे गुजरातप्रदेशे स्थिते ‘एम्.एस्. विश्वविद्यालये’ बडौदायां सह अन्येषु च महाविद्यालयेषु — ‘सेंट् जेवियर् महाविद्यालये’ (अहमदाबादे), ‘एस्.बी. जॉर्ज् महाविद्यालये’ (नवसारी-नगरस्थे) — अध्यापनकर्तृपदे आसीत्।

सन् १९६४ तमे वर्षे सः देहलीविश्वविद्यालयेन सम्बद्धः अभवत् तथा देहलीं स्थायी निवासस्थानं कृतवान्।

लेखनः

रामदरशः मिश्रः दीर्घां काव्ययात्रां कृतवान्।तस्य प्रथमः काव्यसंग्रहः “पथ के गीत” इति नाम्ना सन् १९५१ तमे वर्षे प्रकाशितः।

सः तु काव्यलेखनं सन् १९४० तमे वर्षे एव आरब्धवान्।

तस्य प्रथमप्रकाशिता कविता “चन्द्रः” इति आसीत्।

प्रकाशिताः कृतयः — पथ के गीत, बैरंग- बेनाम चिट्ठियां, पक गई है धूप, कंधे पर सूरज, दिन एक नदी बन गया, मेरे प्रिय गीत, बाजार को निकले हैं लोग, जुलूस कहाँ जा रहा है?

रामदरशमिश्रस्य प्रतिनिधिकाव्याः — आग कुछ नहीं बोलती, शब्द सेतु, बारिश में भीगते बच्चे, हँसी ओठ पर आँखें नम हैं (ग़जल संग्रह), बनाया है मैंने ये घर धीरे- धीरे (ग़ज़ल - संग्रह), पानी के प्राचीर, जल टूटता हुआ, सूखता हुआ तालाब, अपने लोग, रात का सफ़र, आकाश की छत, आदिम राग, बिना दरवाजे का मकान, दूसरा घर, थकी हुई सुबह, बीस बरस, परिवार, बचपन भास्कर का, एक बचपन यह भी, एक था कलाकार, खाली घर, एक वह, दिनचर्या, सर्पदंश, बसंत का एक दिन।

कथाः -इकसठ कहानियां, मेरी प्रिय कहानियां, अपने लिए, अतीत का विष, चर्चित कहानियां, श्रेष्ठ आंचलिक कहानियां, आज का दिन भी, एक कहानी लगातार, फिर कब आएंगे?, अकेला मकान, विदूषक, दिन के साथ, मेरी कथा यात्रा, विरासत, इस बार होली में, चुनी हुई कहानियां, संकलित कहानियां, लोकप्रिय कहानियां, 21 कहानियां, नेता की चादर, स्वप्नभंग, आखिरी चिट्ठी, कुछ यादें बचपन की (बाल साहित्य), इस बार होली में,जिन्दगी लौट आई थी,एक भटकी हुई मुलाकात, सपनों भरे दिन, अभिशप्त लोक, अकेली वह, कितने बजे हैं, बबूल और कैक्टस, घर-परिवेश, छोटे-छोटे सुख, नया चौराहा, लौट आया हूं मेरे देश है।

हिन्दुस्थान समाचार / अंशु गुप्ता