Enter your Email Address to subscribe to our newsletters

बलरामपुरम्, 1 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य बलरामपुरनगरे शनिवासरे भक्त्या, सौन्दर्येन, उल्लासेन च समन्वितं वातावरणं बभूव। देवोत्थानैकादशी–तुलसीविवाहयोः पावनसन्धौ नगरस्थमन्दिरेषु, गृहेषु, उपनिवेशेषु च श्रद्धालुभक्ताः सर्वे विधिपूर्वकं पूजनं च अर्चनं च समारब्धवन्तः। सुहागिन्यः अखण्डसौभाग्य–वैवाहिकसुखप्राप्तये दिनभरं व्रतमुपोष्य सायंसमये मातरं तुलसीं सुशोभयामासुः। चूर्णिका–काचचूड़िका–नारिकेल–दीप–पुष्पैः अलंकृतं तुलसीचौरं दृष्टिमनोहरं बभूव।
बलरामपुरे स्थानिकमारवाडीसमाजस्य सहयोगेन अनेकस्थलेषु तुलसी–शालिग्रामयोः विवाहः विशेषश्रद्धया उल्लासेन च सम्पन्नः। पारिवारिकजनाः, समीपवर्तिनः श्रद्धालवः च अस्य धार्मिकस्य आयोजानस्य साक्षिणः अभवन्। नार्यः दिनभरं उपवासं कृत्वा सायंकाले तुलसी–शालिग्रामविवाहस्य विधिपूर्वकं पूजनं च आरभन्त। आरत्यां सम्पन्नायां शङ्खनाद–घण्टानाद–“जय जय तुलसीमाते” “ॐ नमो भगवते वासुदेवाय” इति उच्चारणैः समस्तं वातावरणं भक्तिमयं जातम्।
विचित्रदीप–प्रभया, रंगीनदीपिकाभिः चालोकिते आङ्गणे आध्यात्मिकऊर्जायाः अद्भुतः प्रवाहः अनुभवितः। पौराणिकमतानुसारं देवोत्थानैकादश्यां दिवसे भगवान् विष्णुः चतुर्मासस्य योगनिद्रातः प्रबुध्यन्ते, तस्मात् एव शुभकार्यार्थं आरम्भः अस्मिन्नेव दिने भवति इति विश्वासः। तुलसीविवाहः केवलं भगवान् विष्णोः माता तुलस्याः च दिव्यसङ्गमनस्य प्रतीकः न भवति, अपि तु प्रेम–भक्ति–धर्मनिष्ठायाः च अभिव्यक्तिः अपि अस्ति। अस्मिन्नेव दिने कृतं पूजनं परिवाराय सुख–शान्ति–समृद्धि–मङ्गलप्रदं भवति इति श्रद्धा।
---------------
हिन्दुस्थान समाचार