देवोत्थानैकादशीः अद्य, मुख्यमन्त्रिणा डा॰ यादवेन अभिनन्द्य सुखसमृद्ध्यै शुभकामना कृता
भोपालम्, 1 नवम्बरमासः (हि.स.)। अद्य सर्वत्र देशे देवोत्थानैकादशीपर्वः महान् उत्साहेन, श्रद्धया च आचर्यते। एषः पर्वः देवोत्थानैकादशी इति प्रसिद्धः अस्ति, चासौ हिन्दुधर्मे अत्यन्तं महत्त्वपूर्णः दिवसः मन्यते। अयं दिवसः विशेषतया भगवान् विष्णोः सम्ब
मुख्यमंत्री डॉ. यादव ने लोक आस्था के पावन पर्व 'छठ पूजा' पर  सभी नागरिकों को दी शुभकामनाएं


भोपालम्, 1 नवम्बरमासः (हि.स.)। अद्य सर्वत्र देशे देवोत्थानैकादशीपर्वः महान् उत्साहेन, श्रद्धया च आचर्यते।

एषः पर्वः देवोत्थानैकादशी इति प्रसिद्धः अस्ति, चासौ हिन्दुधर्मे अत्यन्तं महत्त्वपूर्णः दिवसः मन्यते।

अयं दिवसः विशेषतया भगवान् विष्णोः सम्बद्धः अस्ति,

यतः तस्मिन् दिवसे स भगवान् चातुर्मास-कालीनायाः योगनिद्रायाः उत्थाय जाग्रति इति श्रद्धा अस्ति।

मध्यप्रदेशेऽपि अयं पर्वः महान् उल्लासेन आचर्यते।

एषः पर्वः तत्र ग्यारस इति नाम्ना अपि प्रसिद्धः अस्ति। मुख्यमन्त्री डॉ॰ मोहन यादवः देवोत्थानैकादशी-उपलक्ष्ये प्रदेशवासिनः अभिनन्द्य शुभाशंसां च दत्तवान्।मुख्यमन्त्रिणा डॉ॰ यादवेन शनिवासरे सामाजिकमाध्यमे लिखितम् —

“देवोत्थानैकादशी तथा तुलसीदेव्याः विवाहस्य सर्वेभ्यः हार्दिकं अभिनन्दनं शुभकामनाश्च। अस्य पवित्रस्य पर्वणः प्रसङ्गे श्रीहरिविष्णुं प्रार्थये यत् भवतः जीवनं मांगलिकप्रसङ्गैः,

सुखसमृद्धिभ्यां प्रसन्नतया च परिपूर्णं भवेत्।कुटुम्बेषु धनधान्ययोः सततवृद्धिः भवतु।” इति। उल्लेखनीयं यत् देवोत्थानैकादशी कार्तिकमासस्य शुक्लपक्षे एकादश्यां तिथौ आचर्यते।

एषः पर्वः दीपावलिः इत्यस्यैकादशदिनानन्तरं भवति।एषः बहुभिः प्रकारैः लोकैः आचर्यते। सामान्यतया तु अयं उत्सवः तुलसीविवाहः इति रूपेण मन्यते। श्रूयते यत् अद्य एव दिवसे माता तुलसीदेवी भगवानं शालग्रामं प्रति विवाहं कृतवती आसीत्।

लोकाः गन्नकाण्डेन (ईखुमण्डपेण) मण्डपं सज्जयित्वा निशायां पर्वं आनन्देन आचरन्ति।तुलसीशालग्रामयोः विवाहः आनन्दोत्सवस्य स्वरूपेण दृश्यते। शास्त्रज्ञाः वदन्ति यत् अद्य दिवसे भगवान् विष्णुः योगनिद्रायाः उत्थाय जाग्रति।

भगवतः विष्णोः अस्य उत्थानस्य अनन्तरं शुभकार्याणां आरम्भः भवति।अद्यारभ्य एव विवाहादीनां मांगलिककृत्यानां प्रवृत्तिः आरभ्यते इति।

हिन्दुस्थान समाचार / अंशु गुप्ता