Enter your Email Address to subscribe to our newsletters

पटना, 1 नवंबरमासः (हि.स.)। बिहार विधानसभा निर्वाचनं 2025 आधृत्य मुख्यमंत्री नीतीश कुमारः शनिवासरे स्वबिहारस्य नाम्ना मुख्यमंत्रिणः संदेशः
मुख्यमन्त्रिणा पैगाम इति नाम्ना एकं सञ्चारचित्रं (वीडियो) प्रकाशितम् अस्ति। तेन सञ्चारचित्रेण सः जनान् प्रति संदेशं प्रेषयन् पूर्वबिहारस्य वर्तमानबिहारस्य च मध्ये भेदं स्वस्य च उपलब्धीनां विवेचनं कृत्वा राज्यस्य मतदातॄन् प्रति आह्वानं कृतवान्—यत् आगामिनि नवम्बर् मासस्य षष्ठ्यां एकादश्यां च दिनेभ्यः मतदानक्रियायां सक्रियं सहभागं कुर्वन्तु, एनडीए इत्यस्य प्रत्याशी विजयं प्राप्नुयात् च।
सञ्चारचित्रे मुख्यन्त्रिणा २००५ वर्षात् पूर्वं बिहारराज्यस्य दीनावस्थां निर्दिश्य उक्तम्—“यदा मम हस्ते बिहारराज्यं समुपागतं तदा तस्य स्थितिरीयं आसीत्, किन्तु वयं तत् संभालय, विकासमार्गे स्थापयाम।” इत्यपि सः उक्तवान्—“पूर्वं बिहारी इति नाम अपमानस्य विषयः आसीत्, अद्य तु गौरवस्य सम्मानस्य च विषयः जातः।”
सन्देशे नीतीशकुमारः स्पष्टतया उक्तवान् यत् एनडीए सरकारेण सर्वेषु क्षेत्रेषु सततं विकासकार्यं कृतम् अस्ति। सः स्मारयामास यत् चतुर्वारं जनैः तस्मै अवसरः प्रदत्तः, चतुर्वारं च समर्थनं लब्धम्। अतः पुनः अपि जनाः एनडीए-प्रत्याशिनं विजयं ददतु, यतः राज्ये च केन्द्रे च एनडीए-सरकारः स्थायिनी स्यात्, तेन बिहारस्य विकासः अखण्डतया प्रवर्तेत।
नीतीशकुमारः अपि उक्तवान्—“मम प्रयत्नाः न स्वार्थाय न कुटुम्बाय च। मम सम्पूर्णं बिहारं एव मम परिवारः। हिन्दूनां, मुस्लिमानां, सर्वजातीनां, सर्वधर्माणां च कल्याणाय एव वयं कार्यं कृतवन्तः।” एषः वक्तव्यः तस्य सरकारायाः समग्रदृष्टिं सर्ववर्गहितनिष्ठां च सूचयति।
मुख्यमन्त्रिणा अपि उक्तं यत् शिक्षायाम्, आरोग्ये, मार्गनिर्माणे, नारीशक्तिवर्धने च निरन्तरं कार्यं प्रवर्तमानम् अस्ति। एनडीए सरकारेण राज्यस्य दरिद्रजनानां मध्यमवर्गीयजनानां च कल्याणं सदा प्राधान्येन धृतम्। सः आवोचत्—“मतदानक्रियया जनाः स्वभविष्ये राज्यस्य च विकासे निर्णायकभूमिकां वहन्ति।”
अद्य वर्षे बिहारराज्ये निर्वाचनं द्वौ चरणौ भविष्यतः—नवम्बर् मासस्य षष्ठ्यां च एकादश्यां च मतदानं भविष्यति, फलप्रकाशनं तु चतुर्दश्यां नवम्बर् मासस्य। इदं नीतीशकुमारस्य संदेशं एनडीए-पक्षस्य चुनावबलं दृढीकर्तुं, विकासे च मतदातॄणां विश्वासं पुनरुत्थापयितुं समर्थं इति मन्यते।
---------------
हिन्दुस्थान समाचार