Enter your Email Address to subscribe to our newsletters

हमीरपुरम्, 01 नवंबरमासः (हि.स.)।अनुशासने स्थित्वा स्वं भविष्यं उज्ज्वलं कुर्युः स्वयंसेवकाः।
राजकीयवरिष्ठमाध्यमिकविद्यालये लदरौर–नाम्नि प्रवृत्तः सप्तदिनात्मकः राष्ट्रीयसेवायोजनायाः विशेषशिविरः शनिवासरे सम्पन्नः।
कार्यक्रमे मुख्यातिथिरूपेण शक्तिपीठ–संतोषीमातायाः प्रसिद्धमन्दिरस्य प्रधानः श्रीबलवन्तसिंहः उपस्थितः आसीत्।
विद्यालयस्य प्राचार्या रीता कुमारी, एनएसएस्–प्रभारी अच्युतं वर्मा, लता कुमारी च अन्यशिक्षकवर्गश्च मुख्यातिथेः भव्यं स्वागतं कृतवन्तः।
बलवन्तसिंहः स्वयंसेवकान् सम्बोध्य अवदत्—
“शिक्षा एव तादृशं गुणं यत् येन शुभाशुभयोः विवेकः लभ्यते। उत्तम–आदर्श–नागरिकत्वस्य निर्माणाय उत्तमशिक्षायाः आवश्यकता भवति।”
ते अवदन्—“राष्ट्रियसेवायोजनायाः शिविरे छात्रैः समाजसेवाभावस्य विकासाय प्रशंसनीयं कार्यं कृतम्।”
स्वयंसेविका तन्वीशर्मा नाम्ना सप्तदिनेषु स्वयंसेवकैः कृतानां कार्याणां विस्तृतविवरणं प्रस्तुतवती।
---------------
हिन्दुस्थान समाचार