Enter your Email Address to subscribe to our newsletters

नवदेहली, 12 नवंबरमासः (हि.स.)।
देशे वर्धमानस्य वायुप्रदूषणस्य स्वास्थ्ये गंभीरप्रभावान् दृष्ट्वा केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्रालयेन बुधवासरे सर्वेषां राज्येषां केन्द्रशासितप्रदेशानां च कृते नवीनतमः स्वास्थ्योपदेशः निर्गतः अस्ति। अस्मिन् उपदेशे विशेषतः चिकित्सालयेषु “वक्षःक्लिनिक्” (चेस्ट क्लीनिक्) स्थापयितुं, स्वास्थ्यसुविधानां च शीघ्रं सुदृढीकरणं कर्तुं निर्देशः दत्तः अस्ति।
अयं उपदेशः राष्ट्रीयजलवायुपरिवर्तनमानवस्वास्थ्यकार्यक्रमः अन्तर्गतं राष्ट्रीयरोगनियन्त्रणकेन्द्रेण प्रणीतः अस्ति, यस्मिन् केन्द्रीयप्रदूषणनियन्त्रणमण्डल तथा विविधानि स्वास्थ्यविशेषज्ञानसंस्थानानि सहकार्यं कृतवन्ति। स्वास्थ्यमन्त्रालयेन उक्तम्— “वक्षःक्लिनिक्” नामानि एते केन्द्रीयकानि श्वसनहृदयरोगानां परीक्षणे, पहिचानाय, संकटमूल्याङ्कने उपचारार्थं च विशेषकेंद्रत्वेन कार्यं करिष्यन्ति।
एते क्लिनिकाः सामुदायिकस्वास्थ्यकेन्द्रेषु, उपजिलाचिकित्सालयेषु, जिलाचिकित्सालयेषु, चिकित्साशालासु च स्थाप्यन्ते, विशेषतः तेषु नगरेषु ये राष्ट्रीयस्वच्छवायुप्रकल्पस्य अन्तर्गतं “गैरनुपालनश्रेणी” इत्याख्यायां पतन्ति। क्लिनिकेषु प्रतिदिनं न्यूनातिन्यूनं द्वौ घण्टौ विशेषसत्राणि प्रवर्तिष्यन्ते, यत्र प्रशिक्षिताः स्वास्थ्यकर्मिणः रोगिणां परीक्षणं करिष्यन्ति, गम्भीरप्रकरणानि उच्चसंस्थानेषु संदिश्यन्ति च।
मन्त्रालयेन राज्येषु निर्देशः दत्तः यत्, ते वायुप्रदूषणजन्यरोगाणां निवारणनियन्त्रणयोः कृते स्वस्वास्थ्यतन्त्रं सुदृढं करोतु। राज्यस्वास्थ्यविभागान् अपि उक्तम् यत्, ते राज्यप्रदूषणनियन्त्रणमण्डलात् दैनिकं वायुगुणसूचकाङ्कस्य सूचनां गृह्य, स्वास्थ्यसंस्थानानि जनसामान्यं च समये अवगतं कारयन्तु। सर्वे प्राथमिकस्वास्थ्यकेन्द्राः सामुदायिकस्वास्थ्यकेन्द्राः जिलाचिकित्सालयाः च प्रदूषणजन्यरोगोपचारार्थं आवश्यकद्रव्याणां, ऑक्सीजनस्य, नेब्युलाइज़रस्य, वेंटिलेटरस्य, आपातोपकरणानां च उपलब्धतां सुनिश्चित्यन्तु।
उपदेशे निर्दिष्टम्— बालकाः, वृद्धाः, गर्भिण्यः, श्वसनहृदयरोगपीडिताश्च वायुप्रदूषणेन अतिशयेन प्रभाविताः भवन्ति। एषां मध्ये श्वासकष्टम्, कासः, नेत्रजलनम्, वक्षःपीडा, शिरोवेदना, श्रान्तिः इत्यादयः लक्षणानि अधिकानि दृश्यन्ते। दीर्घकालिकसंपर्केन अस्थमा, ब्रोंकाइटिस्, हृदयरोगः, फुफ्फुसकर्कटः इत्यादयः रोगाः उत्पन्नभाविनः भवन्ति।
मन्त्रालयेन वायुप्रदूषणविषये जनजागरूकतायाः सर्वोच्चप्राथमिकता प्रदत्ता अस्ति। “किं कर्तव्यम्, किं न कर्तव्यम्” इत्याख्यायां जनान् प्रति आवाहनं कृतम्— प्रातःसायंकालयोः विहरणं धावनं वा न कुर्वन्तु, धूलिधूमितप्रदेशेभ्यः दूरं तिष्ठन्तु, गृहान्तर्गतं धूपस्य मच्छरक्वायिलस्य च सीमितं प्रयोगं कुर्वन्तु, पर्याप्तं जलं पिबन्तु च।
अस्थमा अथवा हृदयरोगपीडितान् प्रति उपदेशः कृतः— ते N-95 अथवा N-99 मुखावरणानि धारयन्तु, चिकित्सकैः सह निरन्तरं परामर्शं कुर्वन्तु च। विद्यालयान् प्रति अपि निर्देशः प्रदत्तः यत्, ते विद्यार्थिभ्यः वायुगुण्यविषये सूचनां ददातु, दूषितवायुदिनेषु बाह्यक्रियाः सीमयन्तु च। निर्माणविध्वंसस्थलेषु धूलिनियन्त्रणोपायाः, जलसिञ्चनम्, निर्माणसामग्रीणां आवरणं, श्रमिकेभ्यः सुरक्षोपकरणप्रदानं च अनिवार्यं कर्तव्यम् इति।
देहली–एनसीआरप्रदेशे स्वास्थ्यक्षेत्रस्य प्रतिक्रिया ग्रेडेड रिस्पॉन्स एक्शन प्लान अनुसारं भविष्यति। सीवियर+ अथवा आपत्कालीनस्तरप्राप्तौ चिकित्सालयेषु अतिरिक्तशय्याः, औषधद्रव्याणि, चिकित्सककर्मिणश्च तैनाताः भविष्यन्ति। आपत्कालीनसेवाः च सुदृढाः करिष्यन्ते।
स्वास्थ्यमन्त्रालयेन राज्येषु निर्दिष्टम्— वायुप्रदूषणं सार्वजनिकस्वास्थ्यआपत्स्वरूपं ग्राह्यं, सर्वे च विभागाः — स्वास्थ्य, पर्यावरण, परिवहन, नगरविकास, श्रम इत्यादयः — परस्परं समन्वयं कुर्वन्तु। उपदेशे समापनवाक्यरूपेण उक्तम् —
“जनजागरूकता, व्यवहारपरिवर्तनं, समुदायसहभागिता च एव वायुप्रदूषणजन्यस्वास्थ्यप्रभावन्यूनतायाः सर्वाधिकं प्रभावी उपायाः भवन्ति।”
---
------------
हिन्दुस्थान समाचार / Dheeraj Maithani