Enter your Email Address to subscribe to our newsletters

बिजनौरम्,12 नवम्बरमासः (हि.स.)।शिक्षा केवलं पुस्तकेषु सीमिता नास्ति, अपितु सा जीवनस्य दिशा प्रदर्शयितुं साधनं भवति। अस्यैव चिन्तायाः अनुकरणेन नूरपुरनगरस्थे मुरादाबादमार्गे स्थिते वीएसएम् अकादम्यां आगामिनि सप्तदश, अष्टादश, एकोनविंशतितमे नवम्बरमासस्य दिनेभ्यः भव्यः पुस्तकमेळः आयोजनं क्रियते। विद्यालयप्रबन्धनसमितेः अनुसारं अस्य पुस्तकमेळस्य मुख्योद्देश्यः विद्यार्थिनां पठनपाठनरुचिं वर्धयितुं तेषां च शैक्षिकसाहित्यिकपरामर्शान् प्रदातुं च अस्ति।
मेळे देशव्यापिन्यः प्रतिष्ठितप्रकाशनसंस्थाः स्वस्याः शैक्षणिकप्रतियोगीसाहित्यिकबालपुस्तकानां प्रदर्शने विक्रये च भागं ग्रहीष्यन्ति। विद्यालयस्य प्रधानाध्यापकः हिमांशुचौधरी नामकः उक्तवान् यत् एषः आयोजनः विद्यार्थिनां अभिभावकानां शिक्षकेभ्यश्च ज्ञानस्य आदानप्रदानस्य उत्तमं मंचं भविष्यति।
मेळे विशेषपुस्तकप्रदर्शनसहितं लेखकसंवादः, कथापाठसत्रं, पुस्तकछूटप्रस्तावाः, बालकानां कृते सृजनात्मककार्यशालाश्च आयोजिताः भविष्यन्ति। विद्यालयेन सर्वे विद्यार्थिनः, अभिभावकाः, नगरस्य च पुस्तकप्रियजनाः प्रति आग्रहः कृतः यत् ते त्रिदिवसीये अस्मिन् मेळे उत्साहेन सहभागं कुर्वन्तु, एवं च अस्य ज्ञानोत्सवस्य सफलतां सुनिश्चितयन्तु।
हिन्दुस्थान समाचार