Enter your Email Address to subscribe to our newsletters

जबलपुरम्, १२ नवम्बरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य बुधवासरे डुमनाविमानपत्तने जबलपुरनगरे ट्रांजिट–यात्रायै आगमिष्यति । सः सीवनीजमपदे आयोजिते कार्यक्रमे सहभागी भविष्यन्ति तथा विविधविकासकार्याणां लोकार्पणं भूमिपूजनं च करिष्यन्ति।
निर्धारितकार्यक्रमानुसारंमुख्यमन्त्री डॉ. मोहनयादवः मध्याह्ने १२.३५ वादने भोपालनगरात् विमानमार्गेण डुमनाविमानपत्तनं प्राप्स्यन्ति।ततः मध्याह्ने १२.४० वादने उदग्रयानेन सिवनीनगरे प्रस्थानं करिष्यति। मुख्यमन्त्री सिवनीस्थले स्थानीयकार्यक्रमे सहभागी भविष्यति, अनन्तरं सायं ४.१५ वादने उदग्रयानेन कटनीनगरे आगमिष्यति ।कटनीस्थित–हेलिपेडस्थानात् कारयानेन झिझरीग्रामं प्रति गमनं करिष्यति।
मुख्यमन्त्री झिझरीस्थले सायं ४.३० वादने स्थानीयकार्यक्रमे सहभागी भविष्यन्ति,ततः सायं ५.४० वादने उदग्रयानेन पुनः डुमनाविमानपत्तनं जबलपुरं प्राप्स्यन्ति। अन्ते मुख्यमन्त्री डॉ. मोहनयादवः सायं ५.४५ वादने डुमनाविमानपत्तनात् विमानेन भोपालनगरे प्रस्थानं करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता