भारत-दक्षिण अफ्रीका अंताराष्ट्रिय टी-20 क्रीडायाः सज्जासमीक्षोपवेशनम् आयोजितम्
- ओडिशायाः गरिमानं ध्यात्वा आयोजनं त्रुटिरहितरूपेण संपादयितुं मुख्यमंत्री अददात् परामर्शम् भुवनेश्वरम्, 12 नवंबरमासः (हि.स.)आगामिनि नवमे दिसम्बरमासे कटकनगरस्य ऐतिहासिके बारबाटीक्रीडांगणे भारतदक्षिणाफ्रिकयोः मध्ये भविष्यतः अन्ताराष्ट्रियटी–२
भारत-दक्षिण अफ्रीका अंताराष्ट्रिय टी-20 क्रीडायाः सज्जासमीक्षोपवेशनम् आयोजितम्


- ओडिशायाः गरिमानं ध्यात्वा आयोजनं त्रुटिरहितरूपेण संपादयितुं मुख्यमंत्री अददात् परामर्शम्

भुवनेश्वरम्, 12 नवंबरमासः (हि.स.)आगामिनि नवमे दिसम्बरमासे कटकनगरस्य ऐतिहासिके बारबाटीक्रीडांगणे भारतदक्षिणाफ्रिकयोः मध्ये भविष्यतः अन्ताराष्ट्रियटी–२० क्रिकेट्–क्रीडायाः संदर्भे तयारीणां समीक्षा कृते आज लोकसेवाभवने उच्चस्तरीयसभा आयोजिताभूत्। सभायाः अध्यक्षतां वहन् मुख्यमन्त्री मोहनचरणमाझी इत्यनेन ओडिशाक्रिकेट्संघं राज्यप्रशासनं च ओडिशाराज्यस्य गौरवं दृष्ट्वा आयोजनं निर्दोषरूपेण सम्पन्नं कर्तुं निर्दिष्टम्। मुख्यमन्त्रिणा उक्तं यत् क्रिकेट् इति भारतस्य अतीवजनप्रियः क्रीडारूपः अस्ति, अस्मिन् च मैचे केवलं भारतस्य न, अपि तु समग्रस्य जगतः अपि दृष्टयः स्थास्यन्ति। अतः आयोजनकाले कस्यापि प्रकारस्य प्रमादः न भवेत् इति। तेन अधिकारिणः निर्दिष्टाः यत् अस्य क्रीडायाः सर्वे अङ्गानि—सुरक्षा, यातायात्, दर्शकव्यवस्थापनम्, टिकट्–विक्रयः, प्रकाशव्यवस्था, आपत्कालीनसेवाः च—सम्यकरूपेण सुचारुरूपेण सञ्चरन्तु, यथा राज्यस्य कीर्तिः अविकलिता तिष्ठति।

सभायां ओ सी ए इत्यस्य सचिवः संजयबेहेरा नामकः मैचस्य तयारीणां विषये विस्तृतं विवरणं प्रस्तुतवान्। तेन टिकट्–विक्रयप्रक्रिया, दर्शकसुविधाः, स्टेडियमस्य आधारभूतसंरचना, निरन्तरविद्युत्संवहनम्, अग्निशमनव्यवस्था, वाहनस्थानव्यवस्था, यातायात्–नियन्त्रणम् इत्यादिविषयान् विषदं प्रतिपादितम्। मुख्यमन्त्रिणा दिल्ल्यां हालात् जातस्य विस्फोटस्य प्रसङ्गं स्मृत्वा सुरक्षा–विषये सर्वोच्चप्राथमिकता दातव्या इति बलपूर्वकं निर्दिष्टम्। तेन पुलिसप्रशासनं प्रति आदेशः दत्तः यत् “फूलप्रूफ्” सुरक्षा–व्यवस्था सुनिश्चित्य अधिकं सजगं भवतु। तेन सह मुख्यमन्त्रिणा अस्वस्थजनानां आपत्कालीनस्थितिषु च जनानां शीघ्रसहायार्थं सुयोजितः “ग्रीन–कॉरिडोरः” निर्माणीय इति निर्दिष्टम्। सः अपि आज्ञां दत्तवान् यत् जनसमूह–नियन्त्रणं, टिकट्–वितरणम्, आपत्कालीनचिकित्सासेवा च निरन्तरं निरीक्ष्य सर्वकार्याणि निर्दोषरूपेण निष्पादनीयानि।

सभायां अपि उक्तं यत् प्रत्येके स्टैण्ड् मध्ये तस्य क्षमतानुसारं दर्शकसंख्या सीमितरूपेण स्थाप्यते। स्टेडियम् मध्ये अखण्डप्रकाशव्यवस्थायै अतिरिक्तानि जनसेट् योजितानि, तेषां पर्यवेक्षणार्थं नूतनं सॉफ्टवेयर् अपि संस्थापितम्। यदि कश्चन जनसेट् विफलः भवेत्, तर्हि तत्क्षणमेव अन्यः जनसेट् सक्रियः भूत्वा प्रकाशव्यवस्थां निरवधानतया धारयिष्यति।

सभायां मुख्यमन्त्रिणः सलाहकारः प्रकाशमिश्रः, खेलयुवसेवामन्त्री सूर्यवंशीसूरजः, विधायकः ओ सी ए सदस्यः प्रतापचन्द्रप्रधानः, मुख्यसचिवः मनोजआहूजः, गृहमन्त्रालयस्य अतिरिक्तमुख्यसचिवः सत्यव्रतसाहुः, पुलिसमहानिदेशकः वाई बी खुरानिया, मुख्यमन्त्रिणः प्रमुखसचिवः शाश्वतमिश्रः, ओ सी ए अध्यक्षः पंकजलोचनमहान्तिः, सचिवः संजयबेहेरा, विविधानां विभागानां प्रधानसचिवाः, भुवनेश्वर–कटक–पुलिसायुक्तः, कटक–जिलाधिकारी, अन्ये च वरिष्ठाधिकारिणः उपस्थिताः आसन्। सभायां सर्वे अपि मैचस्य सुचारुरूपेण आयोजनाय स्वस्वविभागानां सज्जानां विषये विस्तारतः चर्चां कृतवन्तः।

---------------

हिन्दुस्थान समाचार