Enter your Email Address to subscribe to our newsletters

भोपालम्, 12 नवंबरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहनयादवः उज्जयिन्याः कन्यायाः आराध्यापोरवालायाः जूनियरनेशनल्स्क्वैशचैम्पियनशिप २०२५ (गर्ल्स अण्डर-१७) इत्यस्य खिताबं विजित्य प्राप्तायाः अभिनन्दनं कृतवन्तः। मुख्यमन्त्री डॉ यादवः बुधवासरे स्वीयशुभकामनासन्देशे उक्तवन्तः यत् कन्या आराध्या उज्जयिन्याः सह प्रदेशस्य राष्ट्रस्य च गौरवं वर्धितवती अस्ति। एषा प्रतियोगिता चेन्नै नगर्यां आयोजिताभूत् यत्र आराध्यया उत्कृष्टं प्रदर्शनं कृत्वा स्वर्णपदकं प्राप्तम्। खेलयुवकल्याणमन्त्री विश्वासकैलाशसारङ्गः अपि आराध्यायाः उत्कृष्टप्रदर्शनाय अभिनन्दनं कृत्वा तस्याः उज्ज्वलभविष्यासि कामनां कृतवान्। आराध्यायाः अस्याः उपलब्ध्याः विषये उज्जयिनीनिवासिनः प्रदेशवासीजनाः राष्ट्रवासिनः च सर्वे गर्वं अनुभवन्ति। आराध्यया अस्मिन् प्रतियोगितायां स्वस्य अद्वितीयप्रतिभां अनुशासनं च प्रदर्शितम् अस्ति तथा च जुलै २०२५ मासात् अण्डर १७ गर्ल्स् वर्गे ऑलइण्डियारैंकिंग् मध्ये प्रथमस्थानं धारयति। आराध्यया स्वस्य स्क्वैशजीवने अनेकेषु राष्ट्रीयअन्तरराष्ट्रीयप्रतियोगितासु पदकाः प्राप्ताः सन्ति, येषु एशियनजूनियरचैम्पियनशृंखलायां काञ्चनपदकं वर्ल्डजूनियरस्क्वैशचैम्पियनशिप् मध्ये शीर्षद्वात्रिंशतिस्थानं च उल्लेखनीयम्। उज्जयिन्याः कन्या आराध्यापोरवाला दिल्ल्यां नियुक्तः पुलिसोपायुक्तः विक्रमपोरवालस्य पुत्री अस्ति। अस्याः सफलतायाः निमित्तं दिल्लिपुलिसायुक्तः सतीशगोल्छा अपि तां अभिनन्दितवान्।
---------------
हिन्दुस्थान समाचार