Enter your Email Address to subscribe to our newsletters

विश्वस्वास्थ्यसंघटनेन अस्मिन् दिवसे एशियाखण्डः चेचकात् मुक्तप्रदेशः इति घोषितः आसीत्। एषा मानवानां इतिहासे महानां स्वास्थ्यसफलतानां मध्ये एकतमा गण्यते। चेचक नाम रोगः घातकः सङ्क्रामकः व्याधिः आसीत्, यस्य कारणेन शताब्द्यन्तरेषु लक्षशः जनाः मृत्युमुपागताः। षष्टिदशके विश्वस्वास्थ्यसंघटनेन वैश्विकः चेचकनाशनयज्ञः आरब्धः आसीत्, यस्य अन्तर्गतं व्यापकः टीकाकरणकार्यक्रमः निरीक्षणकार्यक्रमश्च प्रवर्तितौ।
भारतं सहितानि एशियादेशाः अस्मिन् अभियानमध्ये महतीं भूमिकां वहन्तः आसन्। भारतदेशे अन्तिमः चेचकप्रकरणम् १९७५ तमे वर्षे बिहारराज्यस्य खगडिया जनपदे अभिलेखितम्। तदनन्तरं सफलेन टीकाकरणेन निरीक्षणेन च एशियाखण्डः चेचकात् मुक्तः इति घोषितः। १९८० तमे वर्षे संघटनेन समस्तं विश्वं चेचकात् मुक्तम् इति अपि उद्घोषितम्, येन एषा व्याधिः सर्वथा लुप्ता अभवत्।
महत्वपूर्णाः घटनाः —
१८९८ — कालीपूजादिवसे पूज्या माता श्रीशारदादेव्याः कराभ्यां निवेदितायाः विद्यालयस्य उद्घाटनम्।
१९१८ — ऑस्ट्रिया गणराज्यरूपेण स्थापितः।
१९५० — तिब्बतेन चीनस्य आक्रमणस्य विरोधाय संयुक्तराष्ट्रे निवेदनं कृतम्।
१९६८ — पाकिस्तानदेशे जुल्फिकार अली भुट्टो नामकः राजनेता गिरफ्तारः।
१९७१ — नासासंस्थानात् प्रेषितः मरीनर–९ नामकः यानः मङ्गलग्रहस्य कक्षायां प्रविष्टः।
१९७५ — विश्वस्वास्थ्यसंघटनेन एशियाखण्डस्य चेचकात् मुक्तत्वं घोषितम्।
१९८५ — पूर्वकोलम्बियादेशे ज्वालामुखिविस्फोटेन २३ सहस्रं जनाः निधनं प्राप्तवन्तः।
१९९७ — सुरक्षा–परिषदया इराकदेशे गमन–निषेधः आरोपितः।
१९९८ — चीनस्य विरोधेनापि दलाईलामेन अमेरिकाध्यक्षेन च बिल् क्लिण्टन–नाम्ना सह भेंटना कृता।
२००४ — अमेरिकाध्यक्षेन बुशेन फिलिस्तीनराष्ट्रनिर्माणार्थं चतुर्वर्षीयः कालः निश्चितः।
२००५ — दाक्षेसस्य त्रयोदशः शिखरसम्मेलनम् भारतस्य आव्हानस्य अनुमोदनेन सम्पन्नम्।
२००५ — चतुर्दशः शिखरसम्मेलनम् भारतदेशे आयोजयितुं निर्णयः।
२००७ — राष्ट्रमण्डलेन पाकिस्तानं प्रति आपत्कालस्य निवृत्त्यर्थं दशदिनानां समयः प्रदत्तः।
२००७ — ऑस्ट्रेलियादेशे आयोजिते एशियापैसिफिक् स्क्रीन अवार्ड्–नामके उत्सवे भारतीयचित्रम् “गान्धी माई फादर” इति उत्तम–पटकथापुरस्कारं प्राप्तम्।
२००८ — असमगणपरिषद् राष्ट्रीयजनतान्त्रिकगठने सम्मिलिता।
२००९ — झारखण्डराज्ये नक्सलैः निवर्तमानविधायकः रामचन्द्रसिंहः सहितः सप्तजनाः अपहृताः।
जन्मानि
१७८० — महाराजा रणजीतसिंहः, पञ्जाबदेशस्य शासकः।
१८७३ — मुकुन्दरामाराव जयकरः, शिक्षाशास्त्रज्ञः समाजसेवकः न्यायाधीशश्च।
१८९२ — रायकृष्णदासः, कथाकारः गद्यगीतलेखकश्च।
१९१७ — मुक्तिबोध गजानन माधवः, प्रगतिशीलकविः।
१९१७ — वसन्तदादा पाटिलः, भारतीयराष्ट्रीयकाङ्ग्रेसस्य प्रमुखराजनीतिज्ञः।
१९४५ — प्रियरञ्जन दासमुंशीः, वरिष्ठकाङ्ग्रेसनेता, पूर्व–अखिलभारतीय–फुटबॉल्–संघाध्यक्षः।
१९६७ — मीनाक्षी शेषाद्रिः, भारतीयचलच्चित्र–अभिनेत्री।
१९६८ — जूही चावला, हिन्दीचित्र–अभिनेत्री।
निधनानि
१५८९ — लाहौरनगरे भगवानदासस्य निधनम्।
१९६२ — गुलामयाजदानीः, भारतीयपुरातत्त्व–वैज्ञानिकः।
२०१० — डी. वी. एस. राजुः, भारतीयचलच्चित्र–निर्माता।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता