Enter your Email Address to subscribe to our newsletters

लखनऊ, 12 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य राज्यपालः राज्यविश्वविद्यालयानां कुलाधिपतिश्च आनंदीबेनपटेल इत्यस्याः अध्यक्षतायां अद्य लखनौस्थिते राजभवने प्रदेशस्थराज्यविश्वविद्यालयैः सह समर्थपोर्टलस्य एकोनचत्वारिंशद् मॉड्यूलानां पूर्णक्रियान्वयनं विषयीकृत्य ऑनलाइनसमीक्षासभा आयोजिता।
सभायां निबन्धनम्, नामांकनम्, परीक्षा, परिणामः, परामर्शः , शुल्कभुक्तिः, डिजिलॉकरसंलेखनं च इत्येतेषां तांत्रिकसमस्यानां तेषां च समाधानानां विषये विस्तीर्णा चर्चा कृता।
राज्यपालया आनंदीबेनपटेलेन सर्वान् विश्वविद्यालयान् प्रति आदेशः दत्तः यत् ते समर्थपोर्टलस्य अधिकारिभिः निरन्तरं सम्पर्कं स्थापयन्तु, तांत्रिकप्रक्रियागतसमस्यानां च शीघ्रं समाधानं सुनिश्चितयन्तु च।
तया राजभवनस्तरे एकं विशेषज्ञदलम् गठयितुं निर्दिष्टम्, यत् समर्थपोर्टलस्य अधिकारीभिः प्रशिक्षितं भविष्यति, तत् च विश्वविद्यालयान् पोर्टलाधारितकार्यप्रणाल्यां दक्षं करिष्यति।
सा अवदत् यत् ये विद्यार्थी शुल्कं समर्प्यापि प्रवेशं न प्राप्नुवन्ति, तेषां शुल्कवापस्य व्यवस्था सुनिश्चित्या क्रियेत।
राज्यपालया राष्ट्रीयशिक्षानीतिः च Choice Based Credit System इत्यस्य च प्रभावीक्रियान्वयनं प्रति बलं दत्तम्। सा उक्तवती यत् नामांकनात् आरभ्य परीक्षाफलपर्यन्तं सर्वाणि कार्याणि समर्थपोर्टलस्य माध्यमेन एव करणीयानि।
राज्यपालया विश्वविद्यालयेषु प्रशिक्षितआईटीदलं गठनं, शिक्षासत्राणां समयबद्धारम्भः, विद्यार्थिभ्यः समर्थपोर्टलस्य प्रयोगप्रक्रियाया व्याख्यानार्थं वीडियोनिर्माणं च कृत्वा तानि विश्वविद्यालयानां यूट्यूबचैनलेषु प्रकाशितुं निर्देशः दत्तः।
तथा सा अन्यराज्यानां अनुभवतः शिक्षां ग्रहीतुं तांत्रिकविश्वविद्यालयानां च सहयोगं प्राप्तुं विश्वविद्यालयान् प्रति आहूतवती।
पटेलमहाभागया छात्रावासेषु विशेषतः बालिकानां सुरक्षायां बलं दत्तम्। सा उक्तवती यत् यदि का चन छात्रा व्यर्थं बाह्यं गच्छति, तर्हि तस्याः अभिभावकान् तत्क्षणमेव सूचयेत्।
स्वच्छतां पर्यावरणसंरक्षणं च प्रवर्तयितुं, गोदगृहीतग्रामेषु बालकानां तैरकीप्रशिक्षणं दातुं, विश्वविद्यालयेषु अनुशासनं च अनिवार्यं कर्तव्यमिति अपि उक्तम्।
राज्यपालया उक्तं यत् विश्वविद्यालयेषु back paper प्रणालीं समाप्तुं आवश्यकं, विद्यार्थिनः च तादृशं शिक्षयितव्यान् यथा ते सर्वासु परीक्षासु समयेन भागं गृह्णीयुः उत्कृष्टं च प्रदर्शनं कुर्युः।
अस्यां सभायां विशेषकार्याधिकारी (राज्यपाल) डॉ. सुधीरमहादेवबोबडे, विशेषकार्याधिकारी (शिक्षा) पंकज् एल् जानी, समर्थपटलस्य अधिकारी, कुलपतयः, कुलसचिवः, अन्ये च विश्वविद्यालयाधिकारी ऑनलाइन ऑफलाइन च उपस्थिताः आसन्।
हिन्दुस्थान समाचार