Enter your Email Address to subscribe to our newsletters

सुलतानपुरम्, 12 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य हरिपुरबन्वाग्रामे श्रीमद्भागवतकथायाः आयोजनं सम्पन्नम्। कथाव्यासः आचार्यः आलोकशास्त्री नाम महोदयः प्रवचनं कृतवान् यत् केवलं गुरु एव भगवानः साक्षात्कारं करवितुं तद्गमनमार्गं च प्रदर्शयितुं शक्नोति।
महाराजश्री व्यासस्य तपः शुकदेवमहर्षेः च परमज्ञानगाथां च वर्णितवान्। सः अवदत् — यस्य हृदये भगवतः वासः अस्ति, तत्र दुःखस्य अन्धकारस्य च नामापि नास्ति।
श्रीशास्त्री अवदत् यत् भागवतकथाश्रवणेन तस्य च हृदयेन धारयणेन दुःखान्धकारयोः विनाशः भवति। जीवस्य ब्रह्मणा सह मिलनस्य एकमेव साधनं गुरुर्भवति इति अपि तेनोक्तम्।
अयोध्याधामात् आगतः सः महाराजः श्रीमद्भागवतमहापुराणस्य महत्त्वं प्रकाशयामास। अवदत् च — एषः केवलं ग्रन्थः न, अपि तु जीवनं ईश्वरदिशं प्रति नयन् एकः जीवन्मार्गः अस्ति।
व्यासतपः शुकदेवज्ञानगाथा च तेन पुनः पुनः वर्णिता। आचार्येण उक्तं यत् यस्य हृदये भागवतस्य वासः अस्ति, तत्र दुःखान्धकारयोः चिह्नमपि नास्ति।
आचार्यश्रीशास्त्रिणः वचनैः मधुरैः संकीर्तनेन च सम्पूर्णं वातावरणं भक्तिरसपूर्णं जातम्।
डॉ॰ अशोकमिश्रस्य निवासे अस्याः कथायाः प्रथमदिने मंगलाचरणेन वेदवन्दनया पूजनेन च शुभारम्भः कृतः। कथा आरब्धमात्रे एव सम्पूर्णं वातावरणं “राधे राधे” इति जयघोषैः प्रतिध्वनितम्।
कथायां परीक्षितरूपेण विजयकुमारमिश्रः तस्य परिवारः च क्षेत्रस्थैः शताधिकैः भक्तैः सहिताः श्रवणं कृतवन्तः।
कथायाः समापनं भागवतभगवतः आरत्या सह सम्पन्नम्। अस्मिन् अवसरि महेशतिवारी, चिन्तामणितिवारी, दिनेशमिश्र, अङ्किततिवारी, समीरमिश्र इत्यादयः भक्ताः बहुसंख्येन उपस्थिताः आसन्।
हिन्दुस्थान समाचार