इण्डिया गेट इतिं परितः प्रदेशः विषाक्तधूम्रस्य आवरणः आच्छादनः दृश्यते।
नवदेहली, 12 नवंबरमासः (हि.स.)। राष्ट्रियराजधानी देहल्याः वायुगुणाङ्के अद्यापि कोऽपि विशेषः परिवर्तनः न दृश्यते। प्रातःकाले इण्डिया गेट तथा कर्तव्यपथस्य परितः प्रदेशः विषाक्तधूम्रस्य घनावरणेन आवृतः आसीत्। केन्द्रीय प्रदूषणनियन्त्रणमण्डलस्य अनुशारेण,
प्रतीकात्मक।


नवदेहली, 12 नवंबरमासः (हि.स.)। राष्ट्रियराजधानी देहल्याः वायुगुणाङ्के अद्यापि कोऽपि विशेषः परिवर्तनः न दृश्यते। प्रातःकाले इण्डिया गेट तथा कर्तव्यपथस्य परितः प्रदेशः विषाक्तधूम्रस्य घनावरणेन आवृतः आसीत्। केन्द्रीय प्रदूषणनियन्त्रणमण्डलस्य अनुशारेण, अस्मिन् क्षेत्रे वायुगुणसूचकाङ्कः ४०८ आसीत्, यः “गम्भीरश्रेणी” इति निर्दिष्टः अस्ति। पूर्वदिवसे देहल्यां प्रथमवारं वायुगुणः “गम्भीरश्रेणी” पर्यन्तं प्राप्तः। औसतसूचकाङ्कः ४२५ मितः अभवत्। मण्डलेन प्रकाशितेऽस्मिन् आभिलेखे उक्तम् यत्, अस्य स्तरस्य कारणं मौसमस्य स्थिरता तथा स्थानीयस्रोतभूतः उत्सर्जनं भवति। गतवर्षे दिसम्बरमासे एव एषा स्थिति दृष्टा आसीत्।

केन्द्रीयप्रदूषणनियन्त्रणमण्डलस्य मते, यदि वायुगुणसूचकाङ्कः ४०१–५०० मध्ये भवति, तर्हि सः “गम्भीरश्रेणी” इत्युच्यते। एषः स्तरः स्वस्थव्यक्तीनामपि आरोग्यं बाधते, पूर्वरोगग्रस्तेषु जनानां तु गम्भीरश्वासरोगान् जनयति। नवम्बरमासे शीतवृद्ध्यनन्तरं विषाक्तवायुः जनानां श्वसनं कठिनं कृतवती।एतादृशे स्थितौ मङ्गलवासरे प्रवर्तितः “ग्रेप-३” (ग्रेडेड् रिस्पॉन्स् ऐक्शन् प्लानस्य तृतीयः चरणः) अपि वायुगुणे विशेषं प्रभावं न दर्शयति। अस्याः योजनेः अन्तर्गतं पंचमश्रेणीपर्यन्तं विद्यालयानां शिक्षणं हाइब्रिड्-मोडेण करिष्यते इति निर्दिष्टम्।

केंद्रसत्ता स्वास्थ्यनिर्देशान् अपि प्रकाशितवती। प्रदूषणदोषात् बालकान्, गर्भिण्यः, वृद्धान् च उच्चजोखिमश्रेण्यां स्थाप्य, प्रत्येकं सर्वकारीचिकित्सालये “वक्षःक्लिनिकं” स्थापयितुं आदेशः दत्तः। उत्तरभारतेषु सर्वेषां राज्येषु त्वरितक्रियार्थं ३३-पृष्ठपरिमिताः दिशानिर्देशाः केन्द्रीयस्वास्थ्य मंत्रालयेन प्रेषिताः। केन्द्रीयसचिवा पुण्यसलिला श्रीवास्तवा मुख्यसचिवान् प्रति लिखिते पत्रे उक्तवती यत् — वायुगुणः निरन्तरं अवनमति, एषा स्थिति जनस्वास्थ्यस्य कृते गम्भीरं संकटं जातम्। तस्मात् केन्द्रेण राज्येभ्यः आदेशः दत्तः यत्, पंचमश्रेणीपर्यन्तं बालकाः ऑनलाइन-अध्ययनं कुर्वन्तु, निर्माणस्थलानि च निरीक्षितानि स्युः। राज्येभ्यः अपि उक्तं यत् — राज्य-जनपदकार्यदलानि शीघ्रं सक्रियाणि कृत्वा पर्यावरणम्, परिवहनं, नगरविकासः, महिला-बालविकासः, श्रमविभागैः सह समन्वयं वर्धयन्तु। साथमेव देहली–एनसीआर-प्रदेशे प्रचलितः “ग्रेडेड् रिस्पॉन्स् ऐक्शन् प्लान् (ग्रेप्)” कठोरतया पालनं क्रियताम्। मंत्रालयेन एवमपि सूचितम् यत् — वायुप्रदूषणं केवलं श्वासरोगहेतुर्न भवति, अपितु हृदयः, मस्तिष्कः, तन्त्रिकातन्त्रं च अपि गम्भीरतया प्रभावितं करोति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता