Enter your Email Address to subscribe to our newsletters

— तेन तन्त्रेण स्नायुविज्ञानं चिप्-परीक्षणं च नूतनदिशां प्राप्स्यतः।
नवदेहली, 12 नवम्बरमास: (हि.स.)। भारतीयप्रौद्योगिकीसंस्थानस्य बाम्बे इत्यस्य वैज्ञानिकैः देशस्य प्रथमः स्वदेशीकृतः क्वाण्टम् डायमण्ड् सूक्ष्मदर्शी निर्मितः अस्ति। अयं यन्त्रः गतिशीलचुम्बकक्षेत्रस्य त्रिमितिचित्रं निर्मातुं शक्नोति। एषा प्रौद्योगिकी स्नायुविज्ञानक्षेत्रे, द्रव्य-अनुसन्धानक्षेत्रे, अर्धचालकचिप्-परीक्षणक्षेत्रे च क्रान्तिकारीपरिवर्तनं जनयितुं समर्था। एषा सिद्धिः भारतस्य “राष्ट्रीय-क्वाण्टम्-मिशन्” अन्तर्गतं साधिता, तेन सह भारतदेशः अस्मिन् क्षेत्रे प्रथमम् अधिकारपत्रम् अपि प्राप्तवान्।
विज्ञानप्रौद्योगिकीमन्त्रालयस्य अनुसारम्, अस्य सूक्ष्मदर्शिनः उद्घोषणा “एमर्जिंग् साइन्स् टेक्नोलॉजी एण्ड् इनोवेशन् कॉन्क्लेव्” इत्यस्य सम्मेलनस्य अवसरे कृताऽभूत्। एषा प्रौद्योगिकी चिप इत्यस्य आन्तरस्तरेषु चुम्बकक्षेत्रस्य त्रिमितिमापनं कर्तुं शक्नोति। अस्य प्रयोगेन उन्नत-इलेक्ट्रॉनिक-उपकरणानां स्वायत्तप्रणालीनां च परीक्षणे नूतनाः सम्भावनाः उद्घाट्यन्ते। एषा परियोजना मंत्रालयस्य आधिपत्ये सञ्चाल्यते।
कार्यक्रमे केन्द्रीयविज्ञानप्रौद्योगिकीमन्त्री डॉ. जितेन्द्रसिंहः, भारतसर्वकारस्य प्रधानवैज्ञानिक-उपदेशकः प्रोफेसर् अजयः के. सूदः, विज्ञानप्रौद्योगिकीविभागस्य सचिवः प्रोफेसर् अभयः करण्डिकरः च अन्ये वरिष्ठाः अधिकारिणः च उपस्थिताः आसन्।
भारतीयप्रौद्योगिकीसंस्थानस्य बाम्बेशाखायाः प्रोफेसर् कस्तूरी-साहा इत्यस्याः नेतृत्वे विकसितः अयं सूक्ष्मदर्शी “नाइट्रोजन्-वैकन्सी-केन्द्रेषु” आधृतः अस्ति। एतेषु केन्द्रेषु नाइट्रोजनपरमाणोः समीपे रिक्तस्थानं निर्मीयते, यः सामान्यमपि तापमानं स्थित्वा दृढं क्वाण्टम्-समन्वयं प्रदर्शयति। तेन सहायतया चुम्बक-विद्युत्-तापीयपरिवर्तनानां सूक्ष्मं मूल्यांकनं कर्तुं शक्यते।
अयं यन्त्रः पारम्परिकसूक्ष्मदर्शिनिवत् कार्यं करोति, किन्तु नैनोस्तरे चुम्बकक्षेत्रस्य त्रिमितिचित्रं निर्मातुं समर्थः अस्ति। एषा प्रौद्योगिकी 3D-चिप्-संरचना, अतिशीतप्रक्रियकानां, सूक्ष्म-इलेक्ट्रॉनिक-उपकरणानां च अध्ययनाय उपयोगी सिध्यति।
राष्ट्रीयक्वाण्टम्-उद्देश्यस्य अनुरूपं प्रो साहायाः दलः अद्य अस्य सूक्ष्मदर्शिनः कृत्रिमबुद्धि-उपकरण-अध्ययनाधारित-संगणनात्मक-चित्रणमञ्चेन सह संयोजनं कर्तुं प्रयत्नं करोति। एतेन उन्नतचिप्-परीक्षणं, जैविकचित्रणं, भूचुम्बक-अध्ययनं च नूतनगत्याऽनुगमिष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani