जूना अखाड़े उसाहेन समिचर्यते भैरवाष्टमी
हरिद्वारम्, 12 नवंबरमासः (हि.स.)।बुधवासरे भैरवाष्टम्याः पावने पर्वणि श्रीपञ्चदशनामजूना अखाडे भगवतः शिवस्य सौम्यरूपेण भगवानानन्दभैरवस्य विशेषपूजनं संपन्नम्। जूना अखाडस्य संरक्षकः श्रीमन्तहरिगिरीमहाराजस्य सान्निध्ये अध्यक्षः श्रीमहन्तमोहनभारती, श्रीम
भगवान काल भैरव का श्रृंगार


हरिद्वारम्, 12 नवंबरमासः (हि.स.)।बुधवासरे भैरवाष्टम्याः पावने पर्वणि श्रीपञ्चदशनामजूना अखाडे भगवतः शिवस्य सौम्यरूपेण भगवानानन्दभैरवस्य विशेषपूजनं संपन्नम्। जूना अखाडस्य संरक्षकः श्रीमन्तहरिगिरीमहाराजस्य सान्निध्ये अध्यक्षः श्रीमहन्तमोहनभारती, श्रीमहन्तप्रेमगिरीमहाराजः, महामन्त्री श्रीमहन्तमहेशपुरी, सचिवः श्रीमहन्तओमभारती, मुख्यपुजारी महन्तभास्करपुरी इत्येते सर्वे मिलित्वा नगरकोतवालं श्रीआनन्दभैरवं विशेषरूपेण अलंक्रिय्य पञ्चप्रहरात्मकं विशेषपूजनार्चनायाः आयोजनं कृतवन्तः।

तस्मिन् पूजाविधौ नागासंन्यासिनः शतशः श्रद्धालुभक्ताश्च भागिनः अभवन्। श्रीमहन्तहरिगिरीमहाराजः उक्तवान् यत् अद्य भैरवाष्टमी इति उत्सवः श्रीभगवतः शिवस्य उग्रस्वरूपस्य कालभैरवभगवतः जन्मोत्सवरूपेण आचर्यते। अस्मिन् दिने भगवतः कालभैरवस्य पूजनार्चनं कृत्वा तस्य प्रियवाहनं कृष्णश्वानं मिष्टान्नेन तोषयित्वा सर्वाः मनोकामनाः पूर्णा भवन्ति।

अस्मिन् अवसरे जूना अखाडात् प्रातः विशेषशोभायात्रा अपि निष्क्रान्ता। बैंडबाजैः सुसज्जितायां तस्यां शोभायात्रायां भगवानानन्दभैरवस्य पालकी विशेषाकर्षणकेंद्रं आसीत्। सा शोभायात्रा बाल्मीकि चौक, दत्तात्रेय चौक, अपररोड, हरकीपौडी, बडाबाजार, मोतीबाजार, रामघाट, विष्णुघाट इत्येते मार्गान् गत्वा पुनरपि अखाडं प्राप्तवती।

सर्वे परिक्रमार्गे श्रद्धालवः स्थानिकनागरिकाश्च स्थाने स्थाने पुष्पवृष्ट्या भगवानं भैरवं अभिनन्द्य स्वागतं कृतवन्तः।

हिन्दुस्थान समाचार