Enter your Email Address to subscribe to our newsletters

— स्वास्थ्यशिक्षाजीविका-प्रशासनविषये विशेषज्ञाः चर्चां करिष्यन्ति।
भोपालम्, १२ नवम्बरमासः (हि.स.)।भारत–सर्वकारायाः जनजातिकार्यमन्त्रालयेन तथा मध्यप्रदेशजनजाति-कार्यविभागेन संयुक्तरूपेण जनजातिकल्याणाय कार्यरताशासकीयसंस्थाभ्यः राष्ट्रसम्मेलनः भोपालराजधानीनगरे आयोज्यते।अद्य बुधवासरे मुख्यमन्त्री डॉ. मोहनयादवः अस्य राष्ट्रसम्मेलनस्य शुभारम्भं करिष्यन्ति।राज्यपालः मङ्गुभाईपटेलः समापनसत्रस्य मुख्यातिथिः भविष्यति।जनजातिकार्यमन्त्री डॉ. कुँवरविजयशाहः अपि मुख्यातिथिरूपेण उपस्थितः भविष्यति।
जनसम्पर्काधिकारीः अवनीशसोमकुँवरः उक्तवान् यत् अस्य सम्मेलनस्य आयोजनं कुशाभाऊ–ठाकरे अन्ताराष्ट्रीयसम्मेलनकेन्द्रे भोपालनगरे क्रियते।अस्मिन् देशस्य 500 अधिकाः विषयविशेषज्ञाः जनजातिकल्याणसम्बद्ध–विषयेषु चर्चां करिष्यन्ति।राष्ट्रसम्मेलनकार्यक्रमे विशेषज्ञाः स्वेच्छासंस्थाभिः प्रयत्नैश्च जनजातिसमुदायस्य सशक्तीकरणस्य विविधायामेषु विचारविनिमयं करिष्यन्ति।
ते उक्तवन्तः यत् जनजातिसमुदायस्य शिक्षा, स्वास्थ्य, आजीविका, वनाधिकार, शासन, प्रशासनसम्बद्धविषये विशेषज्ञाः स्वस्वविचारान् प्रस्तुत्य करिष्यन्ति।जनजातिसमुदायस्य शिक्षायां शैक्षिकसंस्थानानां भूमिका, चुनौतयः, समस्या च, वर्तमानः शिक्षास्तरः, समग्रशिक्षायां शैक्षिकसंस्थाभिः कर्तव्यभूमिका इत्यादिषु विशेषचर्चा भविष्यति।
तथैव जनजातिसमुदायस्य महिलानां स्वास्थ्यपोषणाः सम्बद्धसमस्याः, टीकाकरणं, राष्ट्रीयस्वास्थ्यकार्यक्रमविस्तारः, टेलीमेडिसिन्, एमहेल्थ् इत्यादि आधुनिकप्रवेशैः स्वास्थ्यसेवाविस्ताराय अशासकीयसंस्थानां भूमिकायां अपि विचारः भविष्यति।
सम्मेलने जनजाति-अर्थव्यवस्थायाः समस्याः, आजीविकावृद्धिः, जनजातियुवकानाम् उद्यमिताविकासः, नवीनाजीविका–अवसराः, स्वसहायतासमूहेन आर्थिक–उद्यमिताप्रोत्साहनं इत्यादिषु विषयेषु विचारविमर्शः भविष्यति।तत्र स्वेच्छासंस्थाभ्यः भूमिकाः निर्धारिताः भविष्यन्ति,एवं च वनाधिकाराधिनियमस्य कार्यान्वयनप्रक्रियायां जाताः कठिनताः अपि चर्चायाः विषयः भविष्यति।
राष्ट्रसम्मेलने जनजातिविकासशासनप्रशासन-सम्बद्धविषये, राज्यस्य भूमिका, पंचायतराजसंस्थाः, ग्रामसभाः, पारम्परिकजनजातिसंस्थाः, जनजातिविकाससंस्थानः इत्यादीनां भूमिकाः अपि चर्चायां विषयतां प्राप्स्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता