मतगणनया युतानां कर्मिणाम् एकदिवसीयप्रशिक्षणम् आयोजितम्
सहरसा, 12 नवंबरमासः (हि.स.)।स्थानीयप्रेक्षागृहे विधानसभाया: सामान्यनिर्वाचनस्य 2025 अवसरं प्रति 14 नवम्बर नियोजितायाः मतगणनायाः सुचारुरूपेण सञ्चालनार्थं नियुक्तानां मतगणनाकर्मणां यथा–मतगणनासहायकानां, मतगणनापर्यवेक्षकानां, मतगणनामाइक्रोपर्यवेक्षकाना
मतगणना


सहरसा, 12 नवंबरमासः (हि.स.)।स्थानीयप्रेक्षागृहे विधानसभाया: सामान्यनिर्वाचनस्य 2025 अवसरं प्रति 14 नवम्बर नियोजितायाः मतगणनायाः सुचारुरूपेण सञ्चालनार्थं नियुक्तानां मतगणनाकर्मणां यथा–मतगणनासहायकानां, मतगणनापर्यवेक्षकानां, मतगणनामाइक्रोपर्यवेक्षकानां च कृते एकदिवसीयप्रशिक्षणसत्रम् आयोजितम्। तस्मिन् अवसरे मास्टरप्रशिक्षकेन मतगणनासम्बद्धानि विविधानि पक्षानि यथा–डाकमतपत्रगणनाया: (Postal Ballot Counting) ईवीएममध्ये मतगणनायाः सैद्धान्तिकपक्षाः, अन्ये च आवश्यकबिन्दवः इत्यादिषु विस्तृतया जानकारी प्रदत्ता। सह निर्देशोऽपि दत्तः यत् निर्दिष्टानि दायित्वानि सम्पूर्णतया तत्परभावेन निर्वर्तनीयानि।

प्रशिक्षणसत्रे सामान्यपर्यवेक्षकः 76-सिमरीबख्तियारपुरविधानसभानिर्वाचनक्षेत्रस्य श्री सी. रविशंकर, अपरसमाहर्ता सह निर्वाचिपदाधिकारी 77-महिषीविधानसभानिर्वाचनक्षेत्रस्य श्री निशान्तः, अपरसमाहर्ता सह वरिष्ठपदाधिकारी प्रशिक्षणकोषाङ्गस्य श्री संजीवकुमारचौधरी, नोडलपदाधिकारी प्रशिक्षणकोषाङ्गस्य, अनुमण्डलपदाधिकारी सदर सह निर्वाचिपदाधिकारी 75-सहरसाविधानसभानिर्वाचनक्षेत्रस्य, डीक्लर् सदर सह 74-सोनवर्षा (अनुसूचितजाति) विधानसभानिर्वाचनक्षेत्रस्य च, अन्ये च सम्बन्धिताधिकारी उपस्थिताः आसन्।

हिन्दुस्थान समाचार