Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 12 नवंबरमासः (हि.स.)।मुख्यमन्त्री पुष्करसिंहधामी पर्वतीयजिलान् स्मार्टसिटीरूपेण विकासयितुं प्रयासम् आरब्धवान् अस्ति। प्रथमचरणे तेन नगरनिगमं पिथौरागढं नगरपालिका परिषदं बाढाहाटं (उत्तरकाशी) च नगरपञ्चायतं गैरसैंणं (ग्रीष्मकालीनराजधानी) च स्मार्टसिटीरूपेण विकासयितुं अनुमोदनं कृतम्। तेन सह मुख्यमन्त्रिणा विविधानां विकासयोजनानां कृते ३९.६८ कोटिरूप्यकाणां धनराशिः अपि स्वीकृता। बुधवासरे मुख्यमन्त्रिणा पुष्करसिंधधामिना विकाससम्बद्धाः बहवः महत्वपूर्णाः योजनाः अनुमोदिताः। मुख्यमन्त्रिणा शहरीविकासविभागस्य अन्तर्गतं सप्तदशसु नगरनिकायेषु देवभूमिरजतजयंतीपार्कनिर्माणार्थं १३.४६ कोटिरूप्यकाणि, जनपददेहरादूनस्य उत्तरशाखायाः अन्तर्गतं गङ्गोत्रीविहारनाम्नि नलकूपखननं राइजिंग्मेन् तत्संबद्धकार्यनिर्माणं च कृते २.२२ कोटिरूप्यकाणां स्वीकृतिः दत्ता। मुख्यमन्त्रिणा पीएमगतिशक्तिपोर्टले एस् ए एस् सी आइ अन्तर्गतं प्रस्ताविते जोनप्रथमशिवालिकनगरपम्पिंगजलापूर्तियोजनायाः पुनर्गठनयोजनारूपेण ६.८१ कोटिरूप्यकाणां स्वीकृतिः दत्ता, अमृत् २.० स्टेट् वाटरएक्शनप्लान्–२ अन्तर्गतं पञ्च योजनानां कृते ३.२५ कोटिरूप्यकाणि अपि स्वीकृतानि। जनपददेहरादूनस्य केन्द्रीयभण्डारशाखायाः अन्तर्गतं नगरीयपेयजलयोजनासु अघरेलूजलसंयोजनेषु ए एम् आर् वाटरमीटराधिष्ठापनकार्याय १० कोटिरूप्यकाणि, मुख्यमन्त्रीघोषणान्तर्गतं जनपदचम्पावतस्य विधानसभा–क्षेत्रे चम्पावतजनपदे बनबसाग्राम्यप्रदेशेषु लोकनिर्माणविभागस्य आन्तरिकदशकिलोमीटरमार्गसुधारीकरणकार्याय ३.९४ कोटिरूप्यकाणि अपि स्वीकृतानि।
हिन्दुस्थान समाचार