रुहेलखण्ड-विश्वविद्यालयस्य दीक्षान्तसमारोहः 13 नवम्बरमासे भविष्यति, द्वौ राज्यपालौ सहभागी भवितारौ।
बरेली, 12 नवम्बरमासः (हि.स.)। महात्मा ज्योतिबा फुले रुहेलखण्ड-विश्वविद्यालये गुरुवासरे 13 नवम्बरमासे भविष्यति 23 तमः दीक्षान्तसमारोहः अस्य वर्षस्य विशेषः भविष्यति। प्रथमवारम् एकस्मिन् एव मंचे द्वौ राज्यपालौ स्याताम्। प्रदेशस्य राज्यपालः विश्वविद्य
राज्यपाल आनंदीबेन पटेल, राज्यपाल संतोष गंगवार


बरेली, 12 नवम्बरमासः (हि.स.)। महात्मा ज्योतिबा फुले रुहेलखण्ड-विश्वविद्यालये गुरुवासरे 13 नवम्बरमासे भविष्यति 23 तमः दीक्षान्तसमारोहः अस्य वर्षस्य विशेषः भविष्यति। प्रथमवारम् एकस्मिन् एव मंचे द्वौ राज्यपालौ स्याताम्। प्रदेशस्य राज्यपालः विश्वविद्यालयस्य कुलाधिपतिः च आन्दीबेन पटेल मुख्यातिथिरूपेण उपस्थिताः भविष्यन्ति, यदा तु झारखण्डराज्यस्य राज्यपालः सन्तोषः गंगवारः ‘लाइफटाइम् अचीवमेन्ट् अवार्ड्’ इत्यनेन सन्मानितः भविष्यति।

विश्वविद्यालयेन अस्य पुरस्कारस्य प्रथमवारम् आरम्भः कृतः। अस्याः योजनायाः अन्तर्गतं शिक्षायाः, अनुसन्धानस्य च, समाजसेवायाश्च क्षेत्रेषु उत्कृष्टरूपेण योगदानं दत्तवन्तः अध्यापकाः पूर्वछात्राश्च सम्मानं प्राप्स्यन्ति। समारोहस्य अन्तर्गतं 94 उत्कृष्टविद्यार्थिनः स्वर्णपदकैः, 111 विद्यार्थिनः उपाधिभिः सम्मानिताः भविष्यन्ति। भारतीयप्रौद्योगिकसंस्थानस्य (IIT) रोपड्-निर्देशकः प्रो. राजीवः आहूजा कार्यक्रमस्य मुख्यातिथिः भविष्यति। तस्मिन्नेव काले उच्चशिक्षामन्त्री, राज्यमन्त्री, अन्ये जनप्रतिनिधयश्च उपस्थिताः भविष्यन्ति।

द्वयोः राज्यपालयोः आगमनं दृष्ट्वा सुरक्षासंस्थानानि सम्पूर्णतया सज्जानि सन्ति। विश्वविद्यालयपरिसरे आरक्षक-विभागस्य, गूढचरविभागस्य च दलानि नियुक्तानि सन्ति। राज्यपालयोः सुरक्षादलः मङ्गलवासरे रात्रौ एव बरेलीं प्राप्तवानतौ‌ प्रशासनं तयोः निवासं यात्रामार्गं च विशेषतया व्यवस्थितवान्।

समारोहात् पूर्वम् अद्य बुधवासरे शोभायात्रायाः पूर्वाभ्यासः कृतः। कुलपतिः प्रोफेसरः के.पी. सिंहः सर्वान् अधिकारिणः कर्मचारिणः च समये उपस्थितिं कर्तुम् आवाहयत्। कुलसचिवः हरीशचन्द्रः उक्तवान् यत् समारोहस्य सर्वेषां कृते ‘ऑफ् व्हाइट्’ वस्त्रविन्यासः निर्धारितः अस्ति। पुरुषाणां कृते बन्दगल्युक्तं कोट्-पैण्ट्, स्त्रीणां कृते लालसीमान्विता शाटिका वेशभूषा भविष्यति।

राज्यपालः आन्दीबेन पटेलः समारोहकाले विश्वविद्यालये नवनिर्मितानां पञ्च परियोजनानाम् उद्घाटनम् अपि करिष्यति, यासु नूतनः कृषिसंकायः सर्वाधिकः प्रमुखः अस्ति। तस्मिन् बी.एस्.सी. (ऑनर्स्) एग्रीकल्चर इत्यस्य पाठ्यक्रमः, एम्.एस्.सी. इत्यस्य च षट् विभागाः प्रस्ताविताः सन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani