Enter your Email Address to subscribe to our newsletters

नवदेहली , १२ नवम्बरमासः । – अस्य वर्षस्य साहित्याकादम्या प्रतिष्ठितः बालसाहित्यपुरस्कारः शुक्रवारदिवसे (१४ नवम्बर) सायं पञ्चवादने तानसेनमार्गे स्थिते त्रिवेणीकलासङ्गमे आयोजिते समारोहे प्रदास्यते।
साहित्याकादम्याः सचिवा पल्लवी प्रशान्त–होलकर बुधवासरे अवदत् यत्, अकादम्याः अध्यक्षः माधवकौशिकः पुरस्कारान् प्रदास्यति। समारोहस्य मुख्यातिथिः गुजरातीलेखिका वर्षादास भविष्यति, तथा अकादम्याः उपाध्यक्ष्या कुमुदशर्मा समाहारवक्तव्यं करिष्यते।पुरस्कृतबालसाहित्यकारेभ्यः उत्कीर्णताम्रफलकं च 50000 रूप्यकाणां सम्मानराशिः च प्रदास्यते।
अस्यः अनन्तरं शनिवासरे १५ नवम्बरदिनाङ्के प्रातः दशवादने साहित्याकादम्याः रवीन्द्रभवने (फिरोजशाह–स्थिते मुख्यालये) लेखकसम्मेलनम् आयोज्यते। तत्र पुरस्कृतबालसाहित्यकाराः स्वस्वीकृतिवक्तव्यं च, रचनात्मकलेखनानुभवान् च प्रकाशितं करिष्यन्ति। अस्य कार्यक्रमस्य अध्यक्षता अकादम्याः उपाध्यक्ष्या कुमुदशर्मा करिष्यति।
बालसाहित्यपुरस्कार–२०२५ प्राप्तग्रन्थाः तथा तेषां लेखकाः –
असमीया – मइनाहंतर पद्य (कविता): सुरेन्द्रमोहनदासः।बाङ्ग्ला – एखनउ गाये काँटा देय (कथा): त्रिदिबकुमारचट्टोपाध्यायः।बोडो – खान्थि बोसोन आरो आखु दानाय (कथा): बिनयकुमारब्रह्मा।डोगरी – नन्हींटोर (कविता): पी.एल्.परिहारः ‘शौक्’ इति।आङ्ग्लभाषा – दक्षिण, साउथ इंडियन मिथ्स एंड फै़ब्लस रीटोल्ड (कहानी): नितिन कुशलप्पाएमपी।गुजराती – टिंचाक (कविता): कीर्तिदा–ब्रह्मभट्टा।हिन्दी – एक बटे बारह (संस्मरणम्): सुशीलशुक्लः।कन्नड – नोटबुक् (कथा): के.शिवलिङ्गप्प–हन्दिहालः।कश्मीरी – शुरे ते चुरे ग्युश (कथा): इज़हारमुबशिरः।कोंकणी – बेलाबायचो शंकर आनि हेर काणयो (कथा): नयना–आडारकार।मैथिली – चुक्का (कथा): मुन्नी–कामत्।मलयालम् – पेन्गिनुकळुडे वन्करायळ (उपन्यासः): श्रीजित–मुत्तेडत्तुः।मणिपुरी – अङाङ्शिङ्गी शान्बुङ्सिदा (नाटकम्): शान्तो–एम्।मराठी – आभालमाया (काव्यम्): सुरेशसावन्तः।नेपाली शान्तिवन (उपन्यासः): साङ्मुलेप्चा। ओडिया – केते फुल फुटिचि (कविता): राजकिशोर–पाढ़िः।पञ्जाबी जादू पत्ता (उपन्यासः): पाली खादिम (अमृतपाल–सिंहः)। राजस्थानी – पंखेरुवं नी पीडा (नाटकम्): भोगीलाल–पाटीदारः। संस्कृत-बालविश्वम् (कविता): प्रीति–पुजारा।संथाली सोना मीरु वाक् सांदेश (कविता): हरलाल मुर्मुः।सिन्धी आसमानी परी (कविता): हीना अगनाणी ‘हीर’।तमिळ् – ओट्रइचिरगु ओविया (उपन्यासः): विष्णुपुरम–सरवणन्। तेलुगु – कबुर्ला देवता (कविता): गङ्गिशेट्टि–शिवकुमारः। उर्दू – क़ौमी सितारे (लेखः): ग़ज़नफ़र इक़बालः।
हिन्दुस्थान समाचार / Dheeraj Maithani