Enter your Email Address to subscribe to our newsletters

उत्तरकाशी, 12 नवंबरमासः (हि.स.)।गङ्गोत्रीधामात् जनजनसंबद्धं जलसंवादाभियानं शुभारम्भितम् यत् मार्च् २०२६ मासे रामेश्वरं ज्योतिर्लिङ्गे सम्पन्नं भविष्यति। माँ गङ्गायाः उद्गमस्थानं गङ्गोत्रीधामं गत्वा ततः शीतकालीनप्रवासस्थानात् मुखवायाः आरभ्य जनजनसंबद्धं जलसंवादाभियानं पर्यावरणविदः रोबिनसिंहस्य नेतृत्वे पादयात्रारूपेण नव राज्येषु प्रविश्य त्रयस्त्रिंशदधिकत्रिसहस्रकिलोमीटरपर्यन्तं गत्वा मार्च् २०२६ मासस्य प्रथमसप्ताहे रामेश्वरे भगवानं शिवं प्रति जलाभिषेकं कृत्वा समाप्तं भविष्यति। रामेश्वरं ज्योतिर्लिङ्गं तमिलनाडुराज्यस्य रामनाथपुरमजिलायां स्थितम् अस्ति। तत् रामेश्वरद्वीपे अवस्थितं च अस्ति तथा च रामनाथस्वामीमन्दिरम् इति प्रसिद्धम्। एतत् द्वादशसु ज्योतिर्लिङ्गेषु एकं च हिन्दूनां चतुर्धामेषु अपि एकं प्रसिद्धं धामं अस्ति। अस्मिन् प्रसङ्गे पर्यावरणविदः रोबिनसिंहः उक्तवान् यत् अद्य सम्पूर्णं विश्वं जलसंकटस्य तीव्रसमस्यया योजितं अस्ति, तस्मात् अस्मात् संकटात् मोचनाय विश्वस्य प्रतिपुरुषं जलविषये संवेदनशीलं भवितव्यम्। अस्मिन् अवसरि रामधीरजसिंहः रागिनीसिंहा रविन्द्रसिंहचौहानः पियूषसिंहः अभिराजसिंहः श्रीनिवासः यज्ञदत्तहाडा बृजेशविजयवर्गीयः विट्ठलः एस् पी सिंहगौरः डॉ देवेंद्रखुकरः मास्टर अमितचन्देलः राजीवसिंहनरूका मन्दिरस्य पुजारी अनुरागसेमवालः शिवांशः च अन्ये च उपस्थिताः आसन्।
हिन्दुस्थान समाचार