त्रिवर्षाणाम् अनन्तरम् अपि असहायः प्रदेशसर्वकारः, व्यवस्था-परिवर्तनं न किन्तु व्यवस्था-पतनम् - डॉ. राजीवबिन्दलः
नाहनः, 12 नवम्बरमासः (हि.स.)।सिरमौर-जिलामुख्यालये नाहन-नगरे अद्य भारतीय-जनता-दलस्य धारटी-धार-मण्डलस्य संगठनात्मक-सभा आयोजिताः। अस्मिन् अवसरे भाजपा-प्रदेशाध्यक्षः डॉ. राजीवबिन्दलः कार्यकर्तृभ्यः संगठनस्य सुदृढीकरणं प्रति उपदेशान् दत्तवान्। ततः परं
3 वर्षों के बाद भी असहाय  प्रदेश सरकार ,व्यवस्था परिवर्तन नहीं व्यवस्था पतन : डॉ राजीव बिंदल


नाहनः, 12 नवम्बरमासः (हि.स.)।सिरमौर-जिलामुख्यालये नाहन-नगरे अद्य भारतीय-जनता-दलस्य धारटी-धार-मण्डलस्य संगठनात्मक-सभा आयोजिताः। अस्मिन् अवसरे भाजपा-प्रदेशाध्यक्षः डॉ. राजीवबिन्दलः कार्यकर्तृभ्यः संगठनस्य सुदृढीकरणं प्रति उपदेशान् दत्तवान्।

ततः परं पत्रकार-परिषदां सम्बोधित्य सः वर्तमान-प्रदेश-सरकारं प्रति तीव्रं प्रहारं कृतवान्।तेन उक्तं यत् त्रिवर्ष-व्याप्ते कार्यकालेऽपि एषः सर्वकारः असहाय-सर्वकारः इव एव स्थितः। एतेषां समीपे भाजपा-निन्दनात् अन्यः कश्चन कार्यः न शेषः।

सः अवदत् यत् सर्वकारस्य मन्त्री, नेतारः, मित्र-मण्डली च सदा ‘भाजपा’ इति रागं गायतः सन्ति।भाजपा-निन्दा एव अस्याः शासनस्य नूतनं ‘फैशन’ अभवत्। अस्मिन् त्रिवर्षेभ्यः मध्ये सरकारा एकमपि जन-कल्याण-योजनां अद्यापि न प्रदत्ता।

डॉ. बिन्दलः पुनः अवदत् यत् “जनता अधुना पृच्छति यत् त्रिवर्षाणां कार्य-प्रतिवेदनं किम्? समाजस्य सर्वे वर्गाः अस्याः सर्वकारस्य कार्यपद्धत्याः कारणात् त्रस्ताः भवन्ति।

सः अवदत् यत् मुख्यमन्त्री वदन्ति यत् ‘व्यवस्था-परिवर्तनं’ इति, परन्तु वस्तुतः एतत् ‘व्यवस्था-पतनम्’ इति कथनीयम्।”

---------------

हिन्दुस्थान समाचार