Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 14 नवंबरमासः (हि.स.)।
दिल्लीस्थे प्रगतिक्रीडांगणे शुक्रवारादारभ्य चतुश्चत्वारिंशतितमः भारतअंताराष्ट्रियवाणिज्यमेलः आईआईटीएफ इति महोत्सवः आरभते। अयं विश्वविख्यातः महोत्सवः चतुर्दशदिनाङ्कात् सप्तविंशतिदिनाङ्कपर्यन्तं प्रवर्तिष्यते यः वणिजां नवोन्मेषानां सांस्कृतिकविविधतानां च अद्भुतम् आविष्करणं करिष्यति।
अस्य वर्षस्य प्रमुखविषयः एकभारत श्रेष्ठभारत इति यः राष्ट्रस्य ऐक्यं प्रगतिं च प्रदर्शयति। अयं मेला भारतवाणिज्यसंवर्धनसंस्थया आईटीपीओ इति आयोजितः अस्ति यः विश्वस्य महान्तेषु व्यापारमेलनां मध्ये प्रमुखः। अस्मिन् मेलने भारतस्य विविधानि राज्यानि केन्द्रशासितप्रदेशाः विदेशीदेशाः च भागं गृह्णन्ति। आर्टिफिशियलइंटेलिजेन्स एआई इत्यस्मात् आरभ्य हस्तशिल्पहस्तकरघोत्पादानां पर्यन्तं सहस्रशः उत्पादानां प्रदर्शनं विस्तीर्णे शतपञ्चाशदधिकाखण्डप्रदेशे भविष्यति।
मुख्यविशेषताः
व्यापारसंधयः चतुर्दशात् अष्टादशदिनाङ्कपर्यन्तं व्यवसायदिवसाः भविष्यन्ति यत्र बीटूबि मीटिंग् इत्यादीनां संधीनां च प्राधान्यम् भविष्यति।
जनसाधारणस्य कृते एकोनविंशतिदिनाङ्कात् सप्तविंशतिदिनाङ्कपर्यन्तं सर्वेभ्यः उद्घाटितः भविष्यति।
दैनिकसमयः प्रातःदशवादनात् अपराह्णपञ्चत्रिंशद्वादनपर्यन्तम्।
सांस्कृतिसौंदर्यं पारम्परिककलानां डिजाइनानां हस्तशिल्पानां च स्टॉलाः अंताराष्ट्रियसहभागितया सह दृश्यस्य रमणीयतां वर्धयिष्यन्ति।
खाद्यविभागः फूड्कोर्ट् मध्ये भारतीयभोजनात् आरभ्य चाइनीज इटालियन फास्ट्फूडपर्यन्तं विस्तृतभक्ष्यसामग्री उपलब्धा भविष्यति।
---------------
हिन्दुस्थान समाचार