त्रि-स्तरीय सुरक्षाव्यवस्थायां मध्ये कृष्युत्पादनविपणसमिति प्राङ्गणे मतगणना।
अररिया १४ नवम्बरमासः (हि.स.)। अररियायाः षट्‌ विधानसभाक्षेत्रेषु कृ्ष्युत्पादनविपणसमित्याः प्राङ्गणे मतदानव्यवस्था कृता अस्ति। शुक्रवासरे संपद्यमानं मतदानं प्रति सुरक्षाविषये व्यापकाः व्यवस्थाः कृताः। त्रि–स्तरीयसुरक्षाव्यवस्थाया मध्ये मतगणनायाः का
अररिया फोटो:डीएम एसपी मतगणना स्थल पर


अररिया १४ नवम्बरमासः (हि.स.)। अररियायाः षट्‌ विधानसभाक्षेत्रेषु कृ्ष्युत्पादनविपणसमित्याः प्राङ्गणे मतदानव्यवस्था कृता अस्ति। शुक्रवासरे संपद्यमानं मतदानं प्रति सुरक्षाविषये व्यापकाः व्यवस्थाः कृताः।

त्रि–स्तरीयसुरक्षाव्यवस्थाया मध्ये मतगणनायाः कार्यं प्रारम्भितम्।

मतगणनायै षट् पृथक्–पृथक् सभागृहाणि व्यवस्थापितानि। प्रभातसमये एव मतगणनायां नियोजिताः कर्मचारीणः, प्रत्याशिनां गणनप्रतिनिधिभिः सह, कठोरसुरक्षायाः मध्ये कृष्युत्पादनविपणसमिति-प्राङ्गणं प्रविष्टाः। प्रत्येकं विधानसभाक्षेत्रस्य मतगणनायै प्रतिचरणं चतुर्दश-उपवेशनानि स्थापितानि। यत्र प्रत्येक–उपवेशनात् प्राप्ताः प्रत्याशीवारमताः संयोज्य एकस्य चरणस्य मतदानगणना भविष्यति।

प्रथमं बैलेट-पत्रिकानां गणना भविष्यति।

जनपदनिर्वाचनाधिकारी सह जनपदाधिकारी अनिलकुमारः मतगणनायाः सुरक्षा च व्यवस्था विषये व्यापकाः उपायाः कृताः इति उक्तवान्।

तथा एव एस्‌.पी. अञ्जनिकुमारः सामान्यजनान् प्रति शान्तिं पालनीयां इति अपीलम् अकरोत्।

जयपराजययोः अनन्तरं कस्यापि विजययात्रायाः आयोजनं निषिद्धम् इति अपि निगदितम्।

अस्मिन् अवसरे विद्यमानः जनपदनिर्वाचनाधिकारी अनिलकुमारः अवदत् यत्

मतगणनायाः व्यापकाः सिद्धताः (समुचिताः व्यवस्थाः) कृताः सन्ति।

प्रातःकाले एव मतगणनां कुर्वन्तः कर्मचारीणः मतगणनास्थानम् आगत्य

मतगणनायाः कार्ये प्रवृत्ताः सन्ति। तत् एवम् एस्‌.पी. अञ्जनिकुमारः अवदत् यत्

यातायातविषये अपि व्यापकाः उपायाः कृताः सन्ति।मतगणनास्थानस्य बहिः स्थिते अररियारानीगञ्जमुख्यमार्गे

सामान्यवाहनानां प्रवेशः निषिद्धः कृतः। मार्गः अपि मार्गान्तरितः कृतः। सुरक्षायाः व्यापकाः व्यवस्थााः कृताः सन्ति। तथा च कस्यापि परिस्थितेः सामना कर्तुं पूर्णतया सज्जताः स्मः इति।

हिन्दुस्थान समाचार / Dheeraj Maithani