(लीड) विधानसभा-उपनिर्वाचन — सप्तराज्येषु स्थितानां अष्टासु विधानसभामण्डलप्रदेशेषु उपनिर्वाचनेषु भाजपादलस्य द्वे, कांग्रेसदलस्य द्वे, अन्येषां चत्वारि स्थानानि विजित्य प्राप्तानि।
नवदेहली, १४ नवम्बरमासः (हि.स.)। देशस्य सप्तराज्येषु स्थितासु अष्टासु विधानसभास्थानेसु सम्पन्नेषु उपचुनावेषु मतगणनान्ते शुक्रवारस्य दिवसे परिणामाः घोषिताः। भाजपा-कांग्रेसयोः प्रत्येकेन द्वे-द्वे स्थानानि प्राप्तानि, आम-आदमी-पार्टी (आआप) तथा झारखण्ड
प्रतीकात्मक


नवदेहली, १४ नवम्बरमासः (हि.स.)।

देशस्य सप्तराज्येषु स्थितासु अष्टासु विधानसभास्थानेसु सम्पन्नेषु उपचुनावेषु मतगणनान्ते शुक्रवारस्य दिवसे परिणामाः घोषिताः। भाजपा-कांग्रेसयोः प्रत्येकेन द्वे-द्वे स्थानानि प्राप्तानि, आम-आदमी-पार्टी (आआप) तथा झारखण्ड-मुक्ति-मोर्च इत्यस्य (झामुमो) प्रत्येकेन एकं-एकं स्थानम् अवाप्तम्। जम्मू-कश्मीर-पीपुल्स-डेमोक्रेटिक-पार्टी (जे एण्ड के–पीडीपी) तथा मिजो-नेशनल-फ्रण्ट् (एमएनएफ) इति पक्षयोः अपि प्रत्येकेन एकं स्थानं जितम्।

निर्वाचनायोगस्य अनुसारम्— जम्मू-कश्मीरस्य बडगाम् नगरोटा च, राजस्थानस्य अंता, झारखण्डस्य घाटशिला, तेलंगानायाः जाग्बिली-हिल्स् , पंजाबस्य तरनतारन्, मिजोरम् प्रदेशस्य डम्पा, ओडिशाराष्ट्रस्य नुआपाड़ा इति स्थानेसु सम्पन्नेषु उपनिर्वाचनेषु परिणामाः प्रकाशिताः।

जम्मू-कश्मीरस्य नगरोटा-क्षेत्रात् भाजपाप्रत्यासी देवयानीराणा विजयी जाता, बडगामप्रदेशात् जे एण्ड के–पीडीपी-दलस्य आगा सैयद् मुन्तजिर् इति अपि विजयी अभवत्। एतेषु उपनिर्वाचनेषु बडगाम्-स्थानं विशेषतः चर्चायां स्थितम्। अत्र उपचुनावः मुख्यमन्त्रिणः उमर-अब्दुल्ला इत्यस्य त्यागपत्रात् कृतः। २०२४ तमे वर्षे सम्पन्नेषु विधानसभानिर्वाचनेषु सः गांदरबल्-बडगाम् इति द्वयोः स्थानयोः विजयी अभवत्। अनन्तरं सः गांदरबल्-स्थानं स्थिरं कृत्वा बडगाम्-स्थानात् त्यागपत्रं दत्तवान्। बडगामप्रदेशे विंशतिः (२०) प्रार्थिनः स्वभाग्यम् आज्ञापयन्ति स्म।

राजस्थानस्य अंता (बारां) प्रदेशे कांग्रेस-दलस्य प्रमोदजैनः, तथा तेलंगानायाः जुबिली-हिल्स् प्रदेशात् कांग्रेसस्य नवीन-यादवः विजयी अभवन्। अंता-स्थानं पूर्वं भाजपा-दलस्यासीत्, तथा जुबिली-हिल्स्-प्रदेशः पूर्वमुख्यमन्त्रेः केसीआर-इत्यस्य पक्षस्य (बीआरएस) आधीनः आसीत्।

आआप-दलः पंजाबस्य तरनतारनस्थानं रक्षितवान्। अत्र हरमीत्-सिंह-सन्धुः विजयम् अलभत।

मिजोरप्रदेशस्य डम्पा-प्रदेशात् मिजो-नेशनल-फ्रण्ट् (एमएनएफ) पक्षस्य आर्. लालथंगलियाना विजयी अभवत्।

ओडिशाराष्ट्रस्य नुआपाड़ा-प्रदेशात् भाजपादलस्य जय-ढोलकिया इति विजयम् अलभत।

झारखण्डस्य घाटशिलास्थानात् पूर्वमुख्यमन्त्रिणः चम्पई-सोरेनस्य पुत्रः, भाजपा-प्रत्यासी बाबूलाल-सोरेन, झामुमो-दलस्य सोमेशचन्द्रसोरेणेन पराजितः।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani