Enter your Email Address to subscribe to our newsletters

नवदेहली, 14 नवंबरमासः (हि.स.)।
केन्द्रीयअन्वेषणब्यूरो (सीबीआई) संस्थया इंटरपोल-सहाय्येन उत्तराखण्डस्य वाञ्छितः आरोपितः जगदीशः पुनेठा संयुक्तारब-अमीरात् (यूएई) देशात् प्रत्यर्पितः कृतः। पुनेठः गुरुवासरे नवीदिल्लीम् आनीतः।
एजन्स्याः अनुसारम्, पुनेठस्य विरुद्धं पिथौरागढ-स्थानके सन् 2021 तमे वर्षे प्राथमिकी लेखिता आसीत्, यस्मिन् तस्योपरी धोखाधडी तथा आपराधिक-षड्यन्त्रस्य आरोपाः निर्दिष्टाः। घटनानन्तरं सः यूएईदेशं पलायितः आसीत्। उत्तराखण्डआरक्षकदलस्य निवेदनस्य आधारेण सीबीआई संस्थया अस्यै वर्षस्य 6 मयि तिथौ तस्य विरुद्धम् इंटरपोल-रक्तसूचना (रेड-नोटिस) निर्गमिता आसीत्। आरोपितम् आनीय उत्तराखण्ड-आरक्षकदलस्य टोली 13 नवम्बर तिथौ यूएईदेशात् नवीदिल्लीम् आगच्छत्।
उल्लेखनीयम् यत् देशे सीबीआई संस्था इंटरपोलस्य नेशनल् सेन्ट्रल् ब्यूरो (एनसीबी) रूपेण भारतपोल नामक-मञ्चद्वारा वैश्विकसंस्थाभिः सह समन्वयं करोति। इंटरपोल-सहाय्येन बहुविध-सञ्चारमार्गैः गतवर्षेषु 150 अधिकाः वाञ्छिताः अपराधिनः प्रत्यर्पिताः भवन्ति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani