बिहार-विधानसभायाः २४३ स्थानकानां हेतुं मतगणना आरब्धा, डाकमतपत्रैः आरम्भः कृतः
पटना, 14 नवंबरमासः (हि.स.)। बिहार-विधानसभायाः २४३ आसनानां कृते जातेषु निर्वाचनषु अद्य प्रातः अष्टवादनात् राज्यस्य अष्टत्रिंशत् (३८) जनपदेषु षट्-चत्वारिंशत् (४६) केन्द्रेषु मतगणना प्रारब्धा।मतगणनाकेन्द्रेषु सुरक्षाव्यूहस्य कठोरव्यवस्था कृता अस्ति। म
बिहार विधानसभा की 243 सीटों की मतगणना की प्रतिकात्मक फोटो


पटना, 14 नवंबरमासः (हि.स.)। बिहार-विधानसभायाः २४३ आसनानां कृते जातेषु निर्वाचनषु अद्य प्रातः अष्टवादनात् राज्यस्य अष्टत्रिंशत् (३८) जनपदेषु षट्-चत्वारिंशत् (४६) केन्द्रेषु मतगणना प्रारब्धा।मतगणनाकेन्द्रेषु सुरक्षाव्यूहस्य कठोरव्यवस्था कृता अस्ति। मतगणनायां समग्रतया ४,३७२ उपवेशनपट्टिकाः स्थापिताः। प्रतिपट्टिकायां एकः परिदर्शकः, एकः गणनासहायकः, एकः सूक्ष्म-पर्यवेक्षकः च नियोजितः भविष्यति। विभिन्न-दलैः नियुक्ताः १८,०००-अधिकाः प्रतिनिधयः अपि प्रक्रियायाः निरीक्षणं कुर्वन्ति। निर्वाचन-आयोगस्य निर्देशानुसारं प्रथमतः डाक-मतपत्राणां (पोस्टल्-बैलेट्) गणना आरब्धा। ततः प्रातः ८.३० वादने एवम् ई–वी–एम् यन्त्रेषु संगृहीतानां मतानां गणना भविष्यति। आयोगेन सर्वेषां जिलाधिकारीणां प्रति निर्देशाः निर्यातिताः यत् मतगणना-कार्यं सुचारुरूपेण सम्पन्नं भवेत्। प्रातः नववादनात् रुझानस्य प्रकाशनं भविष्यति। सायंकालपर्यन्तं प्रायः सर्वेषां विधानसभानां निर्वाचन-फलितानि अपि प्रकाश्यन्ते इति अपेक्षा।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता