Enter your Email Address to subscribe to our newsletters

पूर्वीसिंहभूमम्, 14 नवंबरमासः (हि.स.)। पूर्वसिंहभूमिजनपदे स्थिते घाटशिलाविधानसभा-उपनिर्वाचनस्य मतगणना शुक्रवासरस्य प्रातःकाले जमशेदपुर सहकारीमहाविद्यालये प्रारब्धा। प्रातः अष्टवादने एव गणनायां आरब्धायां परिसरस्य निर्वाचनकोलाहलः अभवत्।जनपदानिर्वाचनाधिकारी उपायुक्तः कर्णः सत्यार्थी मतगणनास्थलम् आगत्य व्यवस्थायाः समीक्षा कृतवान्। कठोरसुरक्षाव्यवस्थायाः मध्ये गणनाक्रिया सुचारुरूपेण प्रवहति, शीघ्रमेव आरम्भिकाः सङ्केताः (प्रवृत्तयः) प्राप्स्यन्त इति अपेक्षा।
मतगणनायै पञ्चदश उतपृष्ठिकाः विन्यस्ताः, यत्र 20 चरणेषु मतगणना प्रवर्तते। त्रिस्तरीया सुरक्षाव्यवस्था कृता। 45 सीसीटीवी-चित्रग्रहणयन्त्राणां निरीक्षणे सम्पूर्णा गणना क्रियते। मतगणनास्थले प्रवेशनपत्र-विहीनानां प्रवेशः निषिद्धः।अपराह्णसमये परिणामस्य प्रकाशनं सम्भाव्यते। अस्मिन् उपनिर्वाचने त्रयोदश प्रत्याशी प्रतिस्पर्धायां स्थिताः आसन् तथा अद्य तेषां राजनीतिकदौर्विध्यं निर्णीयते।
मुख्यः संघर्षः झामुमोसम्बद्धेन सोमेशचन्द्रसोरेन तथा भारतीयजनतापक्षस्य प्रत्याशी बाबूलाल-सोरेन इत्येतयोः मध्ये दृश्यते। सोमेशचन्द्रसोरेन पूर्वशिक्षामन्त्रिणः स्वर्गीय-रामदाससोरेनस्य पुत्रः, यदा तु भाजपा-प्रत्याशी बाबूलालसोरेनः पूर्वमुख्यमन्त्रिणः वरिष्ठभाजपानेतुः चम्पाई-सोरेनस्य पुत्रः अस्ति। स्वर्गीय-रामदाससोरेनस्य निधनात् अनन्तरम् एषा आसन्दी रिक्ता अभवत्, यस्य निवारणार्थम् उपनिर्वाचनम् आयोजितम्।
हिन्दुस्थान समाचार / Dheeraj Maithani