Enter your Email Address to subscribe to our newsletters

झाँसीनगरम् 14 नवम्बरमासः (हि.स.)। रानीलक्ष्मीबायी-केन्द्रीय-कृषिविद्यालयस्य प्रसारशिक्षानिदेशकः डॉ. सुशीलकुमारसिंह: , इत्यनेन बुन्देलखण्डप्रदेशस्य कृषकान् प्रति धान्यकस्य कृषिम् अवलम्बनीयाम् इति उपदेशः कृतः। सः अवदत् यत् धान्यकं बीजोत्पन्नमसालानां प्रमुखं शस्यम् अस्ति। अस्य कृषिः उत्तरप्रदेशे, मध्यप्रदेशे, महाराष्ट्रे, राजस्थानराज्ये, बिहारदेशे च विस्तीर्णरूपेण क्रियते। बुन्देलखण्डप्रदेशस्य स्निग्धा द्विमिश्रा च मृत्तिका शीतकाले धन्याक-उत्पादनस्य अत्युत्तमा मन्यते।
डॉ. सिंह: अवदत् यत् कृष्णस्निग्धायां मृत्तिकायाम् उत्पन्नं धान्यकं विशेषसुगन्धि: गुणवत्तरं च भवति। हरितपर्णानां कृते शस्यम् ४०–४५ दिवसान्तराले सिद्धं भवति। एकस्मिन् हेक्तरे १८–२० किलोग्रामपर्यन्तं बीजस्य आवश्यकता भवति, येन ५०–६० क्विण्टलपर्यन्तं हरितधान्यकस्य उत्पादनं प्राप्तुं शक्यते।
धान्यकस्य प्रमुखाः जातयः— अजमेर-धान्यकम्–१, अजमेर-धान्यकम्–२, राजस्थान-धान्यकम्–४३५, राजस्थान-धान्यकम्–४३६, अर्का–ईशा इत्यादयः। तेषु अजमेर-धान्यकम्–१ इति जातिः श्वेतचूर्णितारोगस्य प्रति प्रतिरोधक्षमत्वेन प्रसिद्धा अस्ति, च हरितपर्णार्थं दान्यर्थञ्च उभयथापि उपयुज्यते।
सः कृषकान् उपदिदेश— बीजारोपणस्य १२–१५ दिवसानन्तरं प्रथमसिंचनेन नूनं कार्यं कुरुत, क्षेत्रे जलनिधारणं मा भूत्।” माहूकिटनियन्त्रणाय इमिडाक्लोप्रिड् १७.८ एस्.सी. इत्यस्य २५०–३०० मिलीलीटरपरिमाणं २००–२५० लीटरजलैः सह मिश्र्य छर्कणीयम्। धान्यस्य शस्यं पङ्क्तेः पङ्क्तेः मध्ये ३०–३५ सेमी, पौधेः पौधेः मध्ये १०–१५ सेमी च अन्तरं स्थापनीयम्। यथायोग्यपालनपोषणेन कृषकाः ११५–१२० दिवसानां अन्ते १२–१५ क्विण्टल् धान्यस्य उत्पादनं लभन्ते। डॉ. सिंह: प्रोक्तवान् यत् धान्यकस्य बीजारोपणं यदि नवम्बरमासस्य २० दिनेभ्यः पूर्वं क्रियते तर्हि श्रेष्ठफलानि सुलभानि भवन्ति। सः अपि अवदत्— “इदं शस्यम् अल्पव्यये सिद्धः भवति, कृषकाणां कृते अतिरिक्तवृत्तेः लाभप्रदविकल्पः च भवितुं शक्नोति।”
---
हिन्दुस्थान समाचार / अंशु गुप्ता