Enter your Email Address to subscribe to our newsletters

भोपालम्, 14 नवम्बरमासः (हि.स.) मध्यप्रदेशराज्यविधिकसेवा-प्राधिकरणस्य आदेशानुसारं प्रदेशे प्रवर्तमाने विधिकसेवासप्ताहे २०२५ अन्तर्भूते अद्य शुक्रवासरे सर्वेषु जनपदेषु विशालः “न्यायोत्सव” नामकः द्विचक्रयानरथयात्रा आयोज्यते।भोपाले प्रधानजनपदे- सत्रन्यायाधीशः मनोजकुमारः श्रीवास्तवः सायं पञ्चवादने रथयात्रायाः शुभारम्भं करिष्यति।
जनसम्पर्काधिकारी अरुणशर्मा इत्यनेन विज्ञापितं यत्—एषा रथयात्रा प्रधानजनपदन्यायालयपरिसरात् आरभ्य वाहननियंत्रणस्थानकं, राजभवनं, मालवीयनगरं, नवीन-आपणं, एपेक्स-कोषं, शौर्यस्मारकं च अतिक्रम्य एम्.पी.-नगर-आरक्षकस्थानकं, पर्यावास-भवनम् इत्येतत् मार्गं गत्वा जनपदविधिकसेवाप्राधिकरणस्य न्यायसेवासदनभोपालप्राङ्गणे समाप्यते। तदेव, जबलपुरे “न्यायोत्सव:” इति द्विचक्रयानयात्रायाः शुभारम्भः सायं चतुर्वादने प्रधानजनपदविभागन्यायालय-परिसरद्वारम्- ०२ तः भविष्यति।एषा यात्रा नगरे मुख्यमार्गान् अतिक्रम्य बहुषु जनेषु विधिजागरूकतायाः संदेशं प्रापयिष्यति।
रथयात्रा प्रधानजनपदविभागन्यायालय-परिसरात् आरभ्य—
अधिकारीमार्ग, रेल्वे-स्टेडियम, पुल-संख्या ०२, एम्पायर-टॉकीज- त्रिपथं, सृजन-संगमस्थानं, टैगोर- उद्यानं, यादगारमार्गं, झण्डा लमार्गं, शिवाजी-उद्यानमार्ग, भीरवानी- इन्धनचतुष्पथं, नर्मदामार्ग, भण्डारी-चिकित्सालय:, तृतीयः विभागः , खालसाविश्वविद्यालय:, ऑफिसर-मेस्-मार्गं, पुल-संख्या ०३, नागरथ-संगमस्थानं, इन्कमटैक्स्- चतुष्पथं, तैय्यावली-मार्गं, घंटाघर-मार्गम् इत्येतानि स्थानानि क्रमशः पारयित्वा पुनः प्रधानजनपदविभागन्यायालय- परिसरद्वार-संख्या ०२ इत्यत्र एव समाप्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता