Enter your Email Address to subscribe to our newsletters

भोपालम्, 14 नवम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य लघुसमितेः सभा अद्य रात्रौ मुख्यमन्त्रिगृहे आयोजिताभवत्। अस्मिन् सम्मेलने पक्षस्य शीर्षनेतृभिः संगठनस्य आगामिकार्यमञ्जरी, निर्वाचनरणनीतिः तथा विविधानां कार्यक्रमाणां विषये विस्तरेण विचारविमर्शः कृतः।
भाजपा-प्रदेशाध्यक्षः हेमन्तः खण्डेलवालः गुरुवासररात्रौ माध्यमेषु प्रदत्ते वक्तव्ये अवदत् यत् अतीतानां समीक्षा-सभासु उपस्थापितविषयानां चर्चाऽत्राभवत्। विशेषतः SIR इति विषयः गहनं विचारितः। पक्षस्य BLA-1 तथा BLA-2 स्तरस्थैः कर्मकरैः पूर्णजागरूकतया तत्परत्वेन च कार्यं कर्तव्यमिति, येन संगठनं सुदृढं भवेत्। सः अवदत्—भाजपा पक्षस्य संगठनं कर्मकराणां सक्रियता, अनुशासनं तथा जनतया सह निरन्तरं संवादं च आधारयति।सभायां SIR-अभियानस्य विषये विशेषचर्चा अभवत्, यत्र BLA-1/BLA-2-कर्मकराणां प्रति अधिकजागरूकतादेशाः दत्ताः, मतदाता-सूचनानां पारदर्शिता सुनिश्चितुम्।
तत्र बिहार-विधानसभा-निर्वाचनस्य निमित्तं मध्यप्रदेशात् गतैः पदाधिकारीभिः कर्मकरैश्च अनुभूता: अनुभवाः अपि ज्ञापितम् , ये भविष्य-निर्वाचनानां कृते उपयोगिनः भविष्यन्ति। अतिरिक्तं, आत्मनिर्भरभारत-अभियान, सरदारवल्लभभाईपटेलजयन्त्याः एकतायात्रा, वन्देमातरम्-गीतस्य १५०-वर्षोत्सवः, तथा भगवान् बिरसामुण्डाजयन्त्याः जनजातीयगौरवदिवसः — एतेषां कार्यक्रमाणां सज्जायाम् अपि समीक्षा कृता।
सभायां संगठनात्मक-संरचना, आगामिकाः कार्यसमितिसभाः तथा जनसंपर्क-अभियानस्य विषये अपि विस्तृतः विचारविमर्शः अभवत्। अस्मिन् अवसरे क्षेत्रीयसंगठनमहामन्त्री अजयः जामवालः, प्रदेशप्रभारी डॉ. महेन्द्रः सिंहः, उपमुख्यमन्त्री जगदीशः देवडा, राजेन्द्रः शुक्लः, प्रदेशसंगठनमहामन्त्री हितानन्दः, मंत्रीगणः कैलाशः विजयवर्गीयः, राकेशः सिंहः तथा प्रह्लादः पटेलः उपस्थिताः आसन्।
---
हिन्दुस्थान समाचार / अंशु गुप्ता