प्रधानमन्त्री मोदी पण्डितनेहरोः जयंत्यां श्रद्धाञ्जलिं समर्पितवान्
नवदेहली, 14 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिः अद्य प्रातः देशस्य प्रथमप्रधानमन्त्रिणं पण्डितजवाहरलालनेहरूम् तेषां जयन्त्यां स्मरन् श्रद्धाञ्जलिं समर्पितवन्तः। प्रधानमन्त्री मोदीः एक्स इत्यत्र लिखितवान्— “पूर्वप्रधानमन्त्री पण्डितजवाहरल
58bd599bb35344f16fc786482c3e76c4_319532347.jpg


नवदेहली, 14 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिः अद्य प्रातः देशस्य प्रथमप्रधानमन्त्रिणं पण्डितजवाहरलालनेहरूम् तेषां जयन्त्यां स्मरन् श्रद्धाञ्जलिं समर्पितवन्तः। प्रधानमन्त्री मोदीः एक्स इत्यत्र लिखितवान्— “पूर्वप्रधानमन्त्री पण्डितजवाहरलालनेहरूजीभ्यः तेषां जयन्त्यवसरे श्रद्धाञ्जलिः।”

उल्लेखनीयम् यत् प्रयागराजे (तदा इलाहाबादनाम्नि) १४ नवम्बर् १८८९ तमे वर्षे जातः नेहरूः आरम्भिकशिक्षां गृह एव निजीशिक्षकैः सह अलभत। पञ्चदशवयस्कः सन् सः आङ्गलदेशं गतवान्, हारो इत्यत्र द्वौ वर्षौ शिक्षां प्राप्य अनन्तरम् कैम्ब्रिज्-विश्र्वविद्यालये प्रवेशं कृतवान्। तत्र सः प्राकृतिकविज्ञानविषये स्नातक-उपाधिं प्राप्तवान्। १९१२ तमे वर्षे भारतं प्रत्यागत्य सहपः त्यक्षं राजनैतिकक्षेत्रे संलग्नाः अभवत्। स्वातन्त्र्यानन्तरं ते देशस्य प्रधानमन्त्रिपदे अभिषिक्ताः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता