प्रधानमन्त्रिणः भ्रातृपुत्रेण कैंची-धाम्नि दर्शनानि कृतानि।
नैनीतालः, 14 नवंबरमासः (हि.स.)। प्रधानमन्त्रिणो नरेन्द्र-मोदिनः भ्रातृजः जितेन्द्र-मोदी शुक्रवासरे नैनीताल-जनपदस्य प्रसिद्धं कैंची-धाम आगत्य बाबा-नीब-करौरी-महाराजस्य मूर्तेः दर्शनं कृतवान्। जितेन्द्रेन बाबा-नीब-करौरी-महाराजस्य तपोभूमेः, तस्याः प
कैंची धाम में जितेंद्र मोदी को बाबा नीब करौरी से संबंधित पुस्तक भेंट करते मंदिर समिति के प्रबंधक।


नैनीतालः, 14 नवंबरमासः (हि.स.)। प्रधानमन्त्रिणो नरेन्द्र-मोदिनः भ्रातृजः जितेन्द्र-मोदी शुक्रवासरे नैनीताल-जनपदस्य प्रसिद्धं कैंची-धाम आगत्य बाबा-नीब-करौरी-महाराजस्य मूर्तेः दर्शनं कृतवान्। जितेन्द्रेन बाबा-नीब-करौरी-महाराजस्य तपोभूमेः, तस्याः पवित्र-शिलायाः, सर्वेषां च मन्दिराणां दर्शनानि कृत्वा देशस्य सुख-शान्तेः समृद्धेः च प्रार्थना कृता।

कैंची-धाम प्राप्ते तस्मिन् काले मन्दिर-समितेः प्रबन्धकः प्रदीप-साह तं सादरं स्वागतं कृतवान्, पूजा-अर्चनया सह मन्दिर-परिसरस्य सर्वं विवरणं च प्रदत्तवान्। अस्मिन् अवसरि मन्दिर-व्यवस्थापन-समितेः शैलेष-साह, एम.पी.सिंह, अनिल-साह, महेन्द्र-बिष्ट, सुरेश-फुलारा, पंकज-निगल्टिया इत्येते अपि उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani