केंद्रीय मंत्री डॉ. चंद्रशेखरो निवेशकेभ्यः भारतस्य विकास यात्रायां सहभागिता विहितवान्
नव दिल्ली, 14 नवंबरमासः (हि.स.)। केन्द्रीयसञ्चार ग्रामोन्नयन च राज्य मन्त्री डाक्टर पेम्मसानी चन्द्रशेखरः वैश्विकनिवेशकेभ्यः आवेदनं कृत्वा उक्तवन्तः यत् भारतस्य आर्थिकविकासस्य आगामिदशके भागीदारीभावेन प्रवर्तनीयम् अस्ति तथा दूरसञ्चारउपकरणनिर्माणक्ष
केंद्रीय मंत्री डॉ. चंद्रशेखर ने निवेशकों से भारत की विकास यात्रा में भागीदारी करने की अपील की


नव दिल्ली, 14 नवंबरमासः (हि.स.)।

केन्द्रीयसञ्चार ग्रामोन्नयन च राज्य मन्त्री डाक्टर पेम्मसानी चन्द्रशेखरः वैश्विकनिवेशकेभ्यः आवेदनं कृत्वा उक्तवन्तः यत् भारतस्य आर्थिकविकासस्य आगामिदशके भागीदारीभावेन प्रवर्तनीयम् अस्ति तथा दूरसञ्चारउपकरणनिर्माणक्षेत्रे पञ्चविंशतिबिलियन डलरपरिमाणं अवसरं लाभनीयम्। भारतस्य तीव्रा प्रगति मानसिकपरिवर्तनस्य महद्भिः सुधारैः उद्यमिताशक्तेः च नवगत्या उपजातं फलम् इति ते अवदन्।

विशाखपट्टनमे आयोजिते सी आई आई सहभागिता सम्मेलनस्य प्रसंगे उपराष्ट्रपतिनः सी पी राधाकृष्णनस्य उपस्थिति मध्ये डाक्टर चन्द्रशेखरः उक्तवन्तः यत् देशस्य उन्नतिः सुविचारितनीतिनिर्माणस्य दृढक्रियान्वयनस्य च प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे मुक्तायाः उद्यमितऊर्जायाः स्वाभाविकं परिणामम्। निवेशकेभ्यः ते आश्वासनम् अपि दत्तवन्तः यत् सञ्चारमन्त्रालयं अनुमतिप्रक्रियां शीघ्रीकर्तुं नवानि निवेशानि प्रोत्साहयितुं च सर्वदा सज्जम् अस्ति।

ते अवदन् यत् भारतदेशः लाइसेन्स राज इति मनोवृत्तेः परं गत्वा ट्रस्ट फर्स्ट नाम दृष्टिकोंम् अपनयत्। अत्र उद्यमिनः राष्ट्रनिर्मातृभूतैः सम्मानं प्राप्नुवन्ति। ते बुनियादी ढाँचायां एकत्रं चत्वारि ट्रिलियन डलरनिवेशम् पील आई योजनासु षड्विंशतिबिलियन डलरनिवेशम् सरलितान् श्रमविधानान् प्रत्यावर्तित करनियमस्य उच्छेदम् जी एस टी आधारितं राष्ट्रीयबाजारैक्यं दिवालाशोधन अक्षमता संहितां च भारतं विश्वसनीयं वैश्विकनिर्मातृदेशं कर्तुं कारणिभूतानि इति व्याहरन्।

डाक्टर चन्द्रशेखरः आन्ध्रप्रदेशं निवेशार्थं अनुकूलं प्रादेशं निरूप्य अवदन् यत् मुख्य मन्त्री एन् चन्द्रबाबु नायडू नेतृत्वेन औद्योगिकपरिसंस्करणम् सुगृहीतं जातम्। साइबराबादं सूचना प्रौद्योगिकी क्षेत्रस्य केन्द्ररूपेण विशाखपट्टनं उद्योग वित्तप्रौद्योगिकी क्षेत्रस्य केन्द्ररूपेण अनन्तपुरम् ऑटोमोबाइल उद्योगस्य केन्द्रं तिरुपति इलेक्रॉनिक्स उद्योगस्य केन्द्रं च भाति। जीनोम वैली इति नवप्रयत्नाः षट् महान्तः बन्दरगाहाः सुसज्जिताः औद्योगिकभूमिसम्पदाः विशालः नवीकरणीयऊर्जास्रोतः शीघ्रनिर्णयक्षम प्रशासनतन्त्रं च एतानि सर्वाणि राज्यं निवेशार्थं सज्जं उत्सुकं च कुर्वन्ति।

---------------

हिन्दुस्थान समाचार